Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
६४
काव्यमाला।
क्तमेव साधु । फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् । तस्यानुपादाने कस्य तत्फलत्वेनोक्तत्वं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम् । यथा
'रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥' अत्र परिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् । तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपश्चितः । तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्र्यभावे मन्येशब्दप्रयोगो वितर्कभेव प्रतिपादयति । यथोदाहृतं प्राक् । 'अहं विन्दं मन्ये त्वदरिविरह' इत्यादि। स्येति । अवश्याभिधेयस्येत्यर्थः । एवं हेतुफलोत्प्रेक्षयोरपि धर्मिगतत्वेनैवान्यधर्महेतुकत्वं निगीर्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते । अतश्च स धर्मी वाच्य एव भवति । यथोक्तोपपत्तेः । निगीर्यमाणः पुनर्धर्म एवोपादानानुपादानाभ्यां द्विधा । तत्तु यथा-एषा स्थलीत्यादि । अत्र नूपुरस्य धर्मिणो बद्धमौनत्वे निश्चलत्वादि धर्महेतुकत्वं निगीर्य दुःखहेतुकत्वमुत्प्रेक्षितम् । निगीर्यमाणश्चानुपात्तो धर्मः । उपात्तस्तु यथा-'मृणालसूत्रं निजवल्ल. भायाः समुत्सुकश्चाटुषु चकवाकः । अन्योन्यविश्लेषणमन्त्रसूत्रभ्रान्त्येव चञ्चुस्थितमाचकर्ष॥' अत्र चक्रवाकस्याकर्षणे चाटुसमुत्सुकहेतुत्वं निगीर्य भ्रान्तिहेतुत्वमध्यवसितम् । निगीर्यमाणश्च धर्म उपात्तः। अनुपात्तस्तु यथा-'कुमुदिन्यः प्रमोदिन्यस्तदानीमुदमीमिलन् । नलिन्या भर्टविरहान्म्लानिमानमिवेक्षितुम् ॥' अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्य दर्शनं फलत्वेनोत्प्रेक्षितम् । निगीर्यमाणश्च धर्मोऽनुपात्तः । तदेवं हेतुस्वरूपयोर्यथासंभवं स्वरूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयति-फलोत्प्रेक्षायामित्यादिना । तस्यति फलस्य । एतच्च हेतूत्प्रेक्षाविचारग्रन्थविवृतेरवगतार्थमिति ग्रन्थविस्तरभयान पुनरायास्यते । तदेवं ग्रन्थकृदात्मनः श्लाघां कटाक्षयनेतदुपसंहरति तदसावित्यादि। अस्याश्च वाचकव्यवस्थां दर्शयति-तस्याश्चेत्यादि । उत्प्रेक्षासामग्र्यभाव इति संभावनाप्रत्ययात्मकत्वाभावात् । प्रागित्यपगुतौ । एवमिवशब्दोऽपि क्वचिद्वितर्कमेव प्रतिपादयति । यथा। 'वृत्तानुपूर्वे च न चातिदीर्घे जड़े शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्ला. वण्य उत्पाद्य इवास यत्नः ॥' इयं च भेदेऽभेदे इत्याद्यतिशयोक्तिभेदमय्यपि दृश्यते । तत्र भेदेऽभेदो यथा-पृथ्वीराजविजये-'गृह्णद्भिः परया भक्त्या बाणलिङ्गपरम्पराः । अनर्मदेव यत्सैन्यैर्निरमीयत नर्मदा ॥' अत्र नर्मदाया अभेदेऽपि भेदः । संबन्धेऽसंबन्धो यथा'अद्वैतं तद्भवतु भवतां संविदद्वैतपुष्टयै क्ष्याभृत्पुत्रीपरिवृढ रमाकान्तदेहद्वयस्य । यत्रा
१. 'तत्क्षणात्' ख. २. 'मानम्लानिं' ख.

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218