SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६४ काव्यमाला। क्तमेव साधु । फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् । तस्यानुपादाने कस्य तत्फलत्वेनोक्तत्वं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम् । यथा 'रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।। उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥' अत्र परिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् । तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपश्चितः । तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्र्यभावे मन्येशब्दप्रयोगो वितर्कभेव प्रतिपादयति । यथोदाहृतं प्राक् । 'अहं विन्दं मन्ये त्वदरिविरह' इत्यादि। स्येति । अवश्याभिधेयस्येत्यर्थः । एवं हेतुफलोत्प्रेक्षयोरपि धर्मिगतत्वेनैवान्यधर्महेतुकत्वं निगीर्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते । अतश्च स धर्मी वाच्य एव भवति । यथोक्तोपपत्तेः । निगीर्यमाणः पुनर्धर्म एवोपादानानुपादानाभ्यां द्विधा । तत्तु यथा-एषा स्थलीत्यादि । अत्र नूपुरस्य धर्मिणो बद्धमौनत्वे निश्चलत्वादि धर्महेतुकत्वं निगीर्य दुःखहेतुकत्वमुत्प्रेक्षितम् । निगीर्यमाणश्चानुपात्तो धर्मः । उपात्तस्तु यथा-'मृणालसूत्रं निजवल्ल. भायाः समुत्सुकश्चाटुषु चकवाकः । अन्योन्यविश्लेषणमन्त्रसूत्रभ्रान्त्येव चञ्चुस्थितमाचकर्ष॥' अत्र चक्रवाकस्याकर्षणे चाटुसमुत्सुकहेतुत्वं निगीर्य भ्रान्तिहेतुत्वमध्यवसितम् । निगीर्यमाणश्च धर्म उपात्तः। अनुपात्तस्तु यथा-'कुमुदिन्यः प्रमोदिन्यस्तदानीमुदमीमिलन् । नलिन्या भर्टविरहान्म्लानिमानमिवेक्षितुम् ॥' अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्य दर्शनं फलत्वेनोत्प्रेक्षितम् । निगीर्यमाणश्च धर्मोऽनुपात्तः । तदेवं हेतुस्वरूपयोर्यथासंभवं स्वरूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयति-फलोत्प्रेक्षायामित्यादिना । तस्यति फलस्य । एतच्च हेतूत्प्रेक्षाविचारग्रन्थविवृतेरवगतार्थमिति ग्रन्थविस्तरभयान पुनरायास्यते । तदेवं ग्रन्थकृदात्मनः श्लाघां कटाक्षयनेतदुपसंहरति तदसावित्यादि। अस्याश्च वाचकव्यवस्थां दर्शयति-तस्याश्चेत्यादि । उत्प्रेक्षासामग्र्यभाव इति संभावनाप्रत्ययात्मकत्वाभावात् । प्रागित्यपगुतौ । एवमिवशब्दोऽपि क्वचिद्वितर्कमेव प्रतिपादयति । यथा। 'वृत्तानुपूर्वे च न चातिदीर्घे जड़े शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्ला. वण्य उत्पाद्य इवास यत्नः ॥' इयं च भेदेऽभेदे इत्याद्यतिशयोक्तिभेदमय्यपि दृश्यते । तत्र भेदेऽभेदो यथा-पृथ्वीराजविजये-'गृह्णद्भिः परया भक्त्या बाणलिङ्गपरम्पराः । अनर्मदेव यत्सैन्यैर्निरमीयत नर्मदा ॥' अत्र नर्मदाया अभेदेऽपि भेदः । संबन्धेऽसंबन्धो यथा'अद्वैतं तद्भवतु भवतां संविदद्वैतपुष्टयै क्ष्याभृत्पुत्रीपरिवृढ रमाकान्तदेहद्वयस्य । यत्रा १. 'तत्क्षणात्' ख. २. 'मानम्लानिं' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy