________________
अलंकारसर्वखम् । एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्ति लक्षयति
अध्यवसितप्राधान्ये त्वतिशयोक्तिः।
अध्यवसाने त्रयं संभवति-स्वरूपं विषयो विषयी च । विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम् । तत्र साध्यत्वे वरूपप्राधान्यम् । सिद्धत्वे त्वध्यवसितत्वप्राधान्यम् । विषयप्राधान्यमध्यव. साये नैव संभवति । अध्यवसितप्राधान्यैवातिशयोक्तिः । अस्याश्च पञ्च कायॆ निज इव विदन्दक्षिणार्धप्रभाभिर्देहेऽन्येषामपि पररिपः कार्घ्यमन्तः प्रमाष्टि ॥' अत्र कायॆसंबन्धेऽप्यसंबन्धः । असंबन्धे संबन्धो यथा-क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च । टङ्कोल्लिखितसूर्येव वसन्तश्रीरजृम्भत ॥' अत्र क्षीरक्षालितत्वाद्यसंबन्धेऽपि संबन्धः । कार्यकारणयोस्तुल्यकालत्वे यथा-'यशसेव सहोद्भूतः श्रियेव सह वर्धितः । तेजसेव सहोद्भूतस्त्यागेनेव सहोत्थितः ॥' पौर्वापर्यविपर्यये यथा-'शराः पुरस्तादिव निपतन्ति कोदण्डमारोपयतीव पश्चात् । अन्वक्प्रहारा इव संघटन्ते प्राणान्द्विषः पूर्वमिव त्यजन्ति ॥' कार्यकारणयोर्विपर्ययेऽपीयं दृश्यते यथा-'सेयं संततवर्तमानभगवद्वाणार्चनैकाग्रताव्यग्रोपान्तलताविमुक्तकुसुमा चन्द्रप्रसूतिर्नदी । यस्याः पाण्डुरपुण्डरीकपटलव्याजेन तीरद्वये शश्वत्पार्वणचन्द्रमण्डलशतानीव प्रसूते जलम् ॥' अत्र नर्मदातश्चन्द्रस्योत्पत्तिप्रतीतेः कार्यकारणविपर्ययः । क्रमिकविपर्ययेणापीयं दृश्यते यथा-'अखर्वगर्वस्मितदन्तुरेण विराजमानोऽधरपल्लवेन । समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यो द्विषतां यशांसि ॥' अत्र समुत्थानानन्तरभाविनो यशः पानस्य पूर्वनिर्देशात्क्रमिकविपर्ययः । अत्रैव 'पियन्निवोच्चैः' इति तु पाठे क्रमिकयोः समकालभावित्वम् । एतदुपसंहरनन्यदवतारयति–एवमित्यादि । तामेव लक्षयितुमाह । एतदेव व्याख्यातुमध्यवसायस्य तावद्यथासंभवं स्वरूपं दर्शयति-अध्यवसितेत्यादि । परस्परनिष्ठत्वानुपपत्तेरध्यवसायस्य किं विषयविषयिभ्यामित्याशङ्कयाह-विषयस्य हीत्यादि । विषयविषयिभ्यामन्तरेणाध्यवसाय एव न भवतीत्यर्थः । एषामेव विषयविभागं दर्शयति-तत्रेत्यादिना । तत्रेति त्रयनिर्धारणे । स्वरूपप्राधान्यमित्यध्यवसायप्राधान्यम् । अध्यवसितप्राधान्यमिति विषयिप्राधान्यम् । साध्यत्वं सिद्धत्वं चोत्प्रेक्षायामेव निर्णीतम् । नैव संभवतीति । अध्यवसायस्वरूपानुदयात् । तदेवं विषयिणः प्राधान्यविवक्षायामलंकारो भवतीत्याह-अध्यवसितेत्यादि । उक्तं चान्यत्र-'अध्यवसायसाध्यत्वप्रतीतावियमिष्यते । तत्सिद्धताप्रतीतौ तु भवेदतिशयोक्तिधीः॥' इति । पञ्चेति न्यूनाधिकसंख्यानिरासार्थम् । अत एव कार्यकारणपौर्वापर्यविध्वंसस्य चतुर्थभेदान्त वो न वाच्यः । एवं हि भेदान्तराणामपि तदन्तर्भाव एव स्यात् । अभेदाद्यसंबन्धेऽपि संबन्धोपनिबन्धनात् । अथ भवत्वेतदिति
१. 'अध्यवसितस्य' ख. २. 'विरुद्धत्वं' ख.