________________
काव्यमाला।
प्रकाराः । भेदेऽभेदः । अभेदे भेदः । संबन्धेऽसंबन्धः । असंबन्धे संबन्धः। कार्यकारणपौर्वापर्यविध्वंसश्च ।
तत्र भेदोऽभेदो यथा'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' चेत् । न । अत्र च यद्यपि सर्वत्र भेदेऽभेदादौ वस्तुतोऽसंबन्धे संबन्ध एव वर्णयितुं शक्यते तथाप्यवान्तरभेदविवक्षयान्यैर्लक्षितत्वाद्विविक्तस्यासंबन्धे संबन्धस्य दर्शितत्वाञ्च विभागेन निर्देशः कृत इति भवद्भिरेवोक्तत्वात् । तत्समानन्यायत्वात्कथमस्यापि चतुर्थभेदान्तर्भावो न्याय्यः । अथ यदि कार्यकारणयोः पौर्वापर्यविध्वंसात्समानन्यायताद्यभावेऽपि तथोपनिबन्धे पश्चमोऽत्र प्रकार इष्यते तद्देशकालयोः पदार्थसंबन्धे विशेषाभावाद्भिन्नदेशत्वाभावेऽपि तथोपनिबन्धे षष्ठोऽपि भेदः परिगणनीय इति निर्विषयत्वादसंगतेरभावः प्रसज्यत इति चेत् । नैतत् । यस्मादतिशयोक्तावतिशयाख्यप्रयोजनप्रतिपिपादयिषया विषयनिगरणेन विषयिप्राधान्यं विवक्षितम्, असंगतौ तु विरुद्धत्वप्रत्यायनाय कार्यकारणयोभिन्नदेशत्वमित्युभयत्राप्यस्ति तावन्निर्विवादो लक्षणभेदः । कार्यकारणपौर्वापर्यविध्वंसे च वल्लभकर्टकस्य हृदयाधिष्ठानस्य कारणस्य स्मरकर्टकस्य च कार्यस्य पूर्वापरीभावं निगीर्य त्वदर्शनेनैव विषयान्तरवैमुख्येन त्वदभिलाषपरैव जातेत्यतिशयप्रयोजनप्रतिपादनार्थमन्यथात्वमध्यवसितमित्यतिशयोक्तिभेदत्वमेवास्य न्याय्यं न त्वसंगतिभेदत्वम् । तत्र हि 'बबन्ध धम्मिल्लमधीरदृष्टेः मानायकश्चम्पकमालिकाभिः । चित्तेषु मन्युः स्थिरता जगाम विपक्षसारङ्गविलोचनानाम् ॥' इत्यादौ धम्मिल्ले बन्धश्चित्तेषु च मन्युस्थैर्यमिति कार्यकारणयोभिन्नदेशत्वम् । यत्रैव बन्धस्तत्रैव तत्कार्यस्य स्थैर्यस्योपपत्तेविरुद्धत्वप्रत्यायकम् । विरोधस्य चात्राभासमानत्वम् । धम्मिल्लबन्धमन्युस्थैर्ययोर्वस्तुतोऽपि कार्यकारणभावसद्भावाभावाख्यस्य बाधकप्रत्ययस्योल्लासात् । न च बाधोदयेऽपि विरोधाप्रतीतिः । द्विचन्द्रप्रतीतिवदनुपपद्यमानतया स्खलद्गतित्वेन तत्प्रतीतेरवस्थानात् । न चातिशयोक्तौ स्खलद्गतित्वम् । निश्चयस्वभावत्वादस्या अनुपपद्यमानत्वशङ्काया अप्यभावात् । नहि कार्यकारणयोः पौर्वापर्यविध्वंस उपपद्यत इत्यत्र विवक्षितं किंत्वेवं फलमेतदिति अत एवासंगतेरतिशयोक्तेश्व स्वरूपभेदोऽपीति कार्यकारणयोः पौर्वापर्यविध्वंसेनासंगतिर्भिनदेशत्वेन चातिशयोक्तिरिति यथोक्तमेव युक्तम् । अत एव च 'पौर्वापर्यविपर्याससमकालसमुद्भवौ । कार्यकारणयोयौँ तौ विरोधाभासपल्लवौ ॥' इत्याद्यपि यदन्यैरुक्तं तदयुक्तमेवेति न न्यूनप्रकारत्वम् । केचिच सर्वालंकाराणामप्यतिशयोक्तेरेव प्रभेदत्वादस्या बहुप्रकारतामाचक्षते । तथा घुपमायामप्यस्त्येतद्भेदत्वम् । न्यूनगुणस्य मुखादेरधिकगुणेन चन्द्रादिना साम्येऽतिशयानतिपातादतिशयं विना च गौरिव गवय इत्यादावनलंकारत्वात् । अतश्चातिशयस्यैव सर्वालंकारबीजभतत्वात् 'एकैवातिशयोक्तिश्च काव्यस्यालंकृतिर्मता' इत्युक्तम् । नैतत् । इह यतिशयस्य