SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६३ अलंकारसर्वस्वम् । त्वादि गम्यमानम् । यत्र धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्त. स्योपादानानुपादानाभ्यां द्वैविध्यम् । उपादाने यथा--- .... _ 'प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम् । चकम्पे वेपैमानान्ता भयविह्वलितेव भूः ॥ अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपात्तम् । अनुपादाने यथा-'लिम्पतीव तमोऽङ्गानि' इत्यादौ । अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां व्यापनादिनिमित्तं गम्यमानम् । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तम् । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् । तस्माद्यथोधर्म एवेति । न पुनर्धर्मी धर्मिगतत्वेनेति । धर्मिभित्तितयेत्यर्थः । अत्र हि धमिणोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्ममित्वमवस्थाप्यते । अत एवात्र धर्मी भित्तिभूततया विषयः । धर्मिणं विना केवलस्यैव धर्मस्य व्यवस्थापयितुमशक्यत्वाद्व्यवस्थाप्यमानत्वे वा धमित्वमेव स्यात् । वस्तुतस्तु धर्म एवोत्प्रेक्षाविषयः । यनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽवसीयते । स च निगीर्यमाणो धर्मः क्वचिदुपात्तो भवति क्वचिच्चानुपात्तः । 'प्राप्याभिषेकं' इत्यादावन्ये, हेतृत्प्रेक्षात्वं मन्यन्ते इत्युदाहरणान्तरेणोदादियते-'नवरोसदलिअ घणनिरवलम्ब संघडिअ तडिकडप्पव्व (१)। नरहरिणो जअइ कडारकेसरे कंधराबन्धो ॥' अत्र कन्धराबन्धर्मिणि सकेसरत्वं निगीर्य सतडित्कटप्रत्वमुत्प्रेक्षितम् । कडारत्वं च निमित्तमुपात्तम् । निगीर्यमाणश्च धर्मो धर्मितगत्वेनोपात्तः । लेपनक्रियाकतत्वोत्प्रेक्षायामित्यर्थादाशङ्कितायाम् । एवं हि तमोलेपनमिवेति प्रतीतिः स्यात् । न चात्र तथेत्याशङ्कयाह-व्यापनादावित्यादि । निमित्तमन्यदिति तिरोधायकत्वादि । तेन तमसि धर्मिणि व्यापनादिधर्म निगीर्य लेपनक्रियाकर्तृत्वरूपो धर्म उत्प्रेक्षित इत्यर्थः । यदाह श्रीमम्मट:--'व्यापनादिलेपनादिरूपतया संभावितम्' इति । यत्र च धर्मान्तरनिगरणेन धर्म एव धर्मिभित्तितयोत्प्रेक्ष्यते तत्र भित्तिभूतत्वाद्विषयरूपस्य धर्मिणः समनन्तरोक्तनीत्या गम्यमानत्वं न युज्यत इत्याह-न चेत्यादि । विषयस्येति । निगीर्यमाणोत्प्रेक्ष्यमाणयोधर्मयोभित्तिभूतस्य धर्मिण इत्यर्थः । न तु निगीर्यमाणस्येति व्याख्येयम् । तस्य ह्युपादानानुपादानाभ्यां द्वैविध्यं भवतीति समनन्तरमेवोक्तम् । तच्चोदाहृतम् । यथा वा-'यत्पुण्डरीक इव पार्वण एव वेन्दाविन्दीवरद्वयमिवोदितमेकनालम् । तत्पद्मरागनिधिमूलमिवाधिगम्य सम्यग्जितं नयनयोर्मम भाग्यशक्त्या ॥' अत्र मुखादीनामुत्प्रेक्षाविषयाणामनुपादानाद्गम्यमानत्वम् । तस्येति धर्मिरूपस्य विषयस्य । उत्प्रेक्षिताधारत्वेनेति । उत्प्रेक्षितस्य लेपनादेर्धर्मस्य व्यापानादिधर्मनिगरणेनोत्प्रेक्षा. विषयीकृतस्याधारत्वेन भित्तिभूततयेत्यर्थः । धर्मिणमन्तरेण धर्मस्य विश्रान्तेः । प्रस्तुत १. 'गम्यमानातू' क. २. 'लोक्यमानास्ता' ख. ३. 'भूतगतत्वेन' क-ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy