SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ , ६२ काव्यमाला | त्प्रेक्षैवेयम् । इवशब्दाप्रयोगे तु सिद्धत्वादध्यवसायस्यातिशयोक्तिः । अपरशब्दस्याप्रयोगे तु रूपकम् । तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा कं प्रति स हेतुः स्यात् । यथा - 'अपश्यन्ताविवान्योन्यं' इत्यादौ । अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् । हेतुफलं च तत्र क्षामतागमनं निमित्तम् । एवं 'अदृश्यत त्वच्चरणारविन्द विश्लेषदुःखादिव बद्धमौनम्' इत्यत्र नूपुर - गतस्य मौनित्वस्य हेतुर्दुःखित्वम् । तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् । एवं सर्वत्र । स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तत्र धर्मो निमित्तभूतः क्वचिन्निर्दिश्यते । यथा - ' स वः पायादिन्दुः' इत्यादौ । अत्र कुटिलत्वादि निर्दिष्टमेव । वेलेव रागसागरस्य' इत्यादौ संक्षोभकारि दित्यं भेदवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतुस्वरूपफलानां यथासंभवं स्वरूपं दर्शयति - तदेवमित्यादिना । स धर्म इति यं प्रत्येव हेतुरुत्प्रेक्ष्यते । अध्यवसायवशादिति भेदे - ऽप्यभेदाश्रयणात् । अभिन्न इत्यप्रकृतसंबन्धिना धर्मेण । स इति निमित्तत्वेनाश्रितो धर्मः । नियमेनेति । अवाच्यः पुनर्न कदा चिद्भवतीत्यर्थः । अन्यथेति वाच्यत्वे । कं प्रति स हेतुरिति । तस्यैव फलरूपत्वात् । नहि यं प्रत्येव हेतुरुत्प्रेक्ष्यते तस्यैव वाच्यत्वं युक्तम् । साध्यमन्तरेण साधनस्य निर्विषयत्वापत्तेः । यदि चास्य निमित्तमात्रत्वमेव स्यात्तद्वाच्यत्ववाच्यत्वं स्यात् । एवमेक एव धर्मो हेतोरुत्प्रेक्ष्यमाणस्य निमित्तं फलं चेति सिद्धम् । एतदेव दर्शयति- अपश्यन्तावित्यादिना । तत्रेति । हेतूत्प्रेक्षणे निमित्तमिति । तद्विनोत्प्रेक्षणस्यानिष्पत्तेः । द्विविधमत्र क्षामतागमनं तपोजनितमदर्शनजनितं च । तयोरध्यवसायवशादभिन्नत्वेनाश्रयणम् । अतश्च हेतोरेक एव धर्मो निमित्तं फलं च । वस्तुतस्तु तपोजनितस्य निमित्तत्वमन्यस्य तु हेतुफलरूपत्वम् । अत एव नेतरेतराश्रयदोषः । द्वयोरपि भिन्नत्वात् । मौनित्वमेवेति । न पुनरन्यत्किंचिदित्यर्थः । अतश्च निश्चलत्वादिजनितस्य दुःखजनितस्य च मौनित्वस्याभेदनाश्रयणम् । सर्वत्रेत्यनेन समस्तलक्ष्याविरुद्धवं हेतूत्प्रेक्षास्वरूपकथनस्योक्तम् । एवं हेतुत्प्रेक्षाया यथासंभवं स्वरूपं प्रदर्श्य स्वरूपोत्प्रेक्षाया अपि दर्शयति – स्वरूपोत्प्रेक्षायामित्यादिना । यद्यप्युद्देशत एवैतत्स्वरूपोत्प्रेक्षायां निमित्तोपादानत्वानुपादानत्वमवगम्यते तथापि हेतूत्प्रेक्षायां यथा निमित्तोपादानमेव संभवति तथात्रापि न संभाव्यमित्याशयेन पुनरिहैतदुक्तम् । यदा चात्र धर्मो धर्म्य - न्तरगतत्वेनोत्प्रेक्ष्यते तदा तत्र निमित्तस्य कीदृग्रूपत्वं भवतीत्याशङ्कयाह - यत्रेत्यादि ।
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy