SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । अत्र यद्यपि 'सर्वप्रातिपदिकेभ्यः क्विप्' इत्युपमानात्किन्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभवोत्थाने उत्प्रेक्षायां पर्यवसानम् । यथा वा विरहवर्णने 'केयूरायितमङ्गदैः' इत्यादौ । एषा च समस्तोपमाप्रतिपादकविषयेऽपि हर्षचरितवार्तिके साहित्यमीमांसायां च तेषु तेषु प्रदेशेषुदाहृता (दृश्यते ।) इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता । सापह्नवोत्प्रेक्षा यथा— ६१ 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा || ' अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगादपहवो गम्यते । एवं छद्मादिशब्दप्रयोगेऽपि ज्ञेयम् । 'अपर इव पाकशासनः' इत्यादावपरशब्दाप्रयोगे उपमैवेयम् । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावुआमुख इति न पुनः पर्यवसाने । उपमाप्रतीतिरिति । तदर्थमेव क्विपः प्रवृत्तेः । अत एवात्र वाचकाभावान्नोत्प्रेक्षात्वमिति न वाच्यम् । नहि वाचकसंभवासंभवमात्रमेवालंकाराणां भावाभावप्रयोजकम् । एवं हि व्याजस्तुतौ निन्दादेर्वाच्यत्वेऽप्यवाच्यस्य स्तुत्यादेः प्रतीतिरलंकार 1 पर्यवसायिनी न स्यात् । तस्माद्वाक्यार्थ एव प्ररूढोऽलंकाराणां स्वरूपप्रतिष्ठापकं प्रमाणम् । वाक्यार्थस्य च पदार्थान्वयवेलातोऽन्यैव प्रतिपत्तिः । संभवौचित्यादिति । कस्तूरीतिलकादेविषयिणो भालफलकादौ संभवे यथौचित्यं न तथा कण्ठत्विडादेर्विषयस्येत्यर्थः । अत एवात्रोपमायाः प्रकृतस्याप्रकृतकस्तूरीतिलकादिरूपतया परिणामात्परिणामगर्भत्वं यदन्यैरुक्तं तत्तेषां परिणामस्वरूपानभिज्ञत्वम् । नह्यौचित्यमेव तस्य स्वरूपं किं तु यथोक्तं प्रकृतोपयोगित्वम् । औचित्यं च नोत्प्रेक्षायां विरुद्धम् । तस्य सर्वत्रैव भावात् । उत्प्रेक्षायां पर्यवसानमिति । कण्ठत्विषामेव कस्तूरीतिलकत्वादिप्रतीतेर्विषयिणो विषयनिगरणेनाभेदप्रतिपत्तेः । सादृश्यावगमाभावात् । सादृश्यं ह्युभयनिष्ठम् । न चात्र प्रकृताप्रकृतयोः संस्पर्धितया प्रतीतिः । यथा वेत्यनेनास्या लक्ष्ये प्राचुर्य दर्शितम् । सेति (एषेति ) समस्तोपमाप्रतिपादकविषये दृश्यमाना । सा तु यथा - ' स दण्डपादो भवदण्डपाद (त) मुत्खण्डयन्नक्षतु चण्डिकायाः । यस्येन्दुलेखा पुरतः स्फुरन्ती त्रुट्यत्तुलाकोटितुलामुपैति ॥' अत्र सत्यपि तुला (कोटि) शब्दे चन्द्रलेखाया एव तुलाकोटिप्रतीतेरुत्प्रेक्षात्वम् । छद्मशब्दप्रयोगेन यथा – 'स्वेदोदविन्दुसंदोहच्छद्मना तव राजते । स्मरेणावैम्यनर्धापि दत्ताव कुचस्थली ॥' अस्याश्च तत्तच्छब्द प्रयोगाप्रयोगाभ्यां प्रतीतिभेदादलंकारैः सह विभागं दर्शयितुमाह- अपर इत्यादि । तत्प्रयोग इत्यपरशब्दप्रयोगे । इवशब्दस्य संभावनाद्यो - तकस्याप्रयोगात्सिद्धत्वम् । अत एव चात्र विषयस्यानुपादानमेव । तदुपादाने हि दृढारोपं रूपकमिति समनन्तरमेवोक्तम् । अन्यत्र पुनः सर्वत्र विषयोपादानमेव न्याय्यम् । त
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy