________________
काव्यमाला।
'कुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घय ।
दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोसत्सर्ज ॥' फलोत्प्रेक्षा यथा'चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥' एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता । प्रतीयमानोत्प्रेक्षा यथा
'महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती । __ अणुदिणमणण्णअम्मा अङ्गं तणुअम्पि तणुएइ ॥' इति ।
अमाअन्ती इत्यत्रावर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम् । एवं भेदान्तरेष्वपि ज्ञेयम् । श्लिष्टशब्दहेतुर्यथा--
'अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः ।
अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम् ॥' - अत्र धर्मविषये मार्गणशब्दः श्लिष्टः । उपमोपक्रमोत्प्रेक्षा यथा'कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे
रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि । याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥' । क्षणयोश्च वक्ष्यमाणनीत्या निमित्तानुपादानं न संभवतीत्याशयेनैतदुक्तम् । तेन प्रतीयमानापि स्वरूपोत्प्रेक्षा निमित्तोपादानानुपादानाभ्यामेव भवति । तत्र निमित्तानुपादाने उदा. हृता । उपादाने तु यथा-'प्रसारि सर्वतो विश्वं तिरो दधदिदं तमः । सर्वाङ्ग लिम्पति जनं सान्द्रैरमृतकूर्चकैः ॥' अत्र प्रसारित्वादि निगीर्य तमोगतत्वेन लेपनक्रिया स्वरूपेणोत्प्रेक्षिता तिरोधायकत्वादि च निमित्तम् । 'तुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा । अपि वा जङ्गमं तीर्थ धर्मो वा मूर्तिसंचरः ॥' इत्यादौ तु वामनमते विशेषोक्तिः । 'भूतलकार्तिकेय.' इतिवत् । ग्रन्थकृन्मते तु दृढारोपं रूपकम् । यद्वक्ष्यति-या त्वेकहानिकल्पनायां साम्यदाय विशेषोक्तिरिति विशेषोक्तिर्लक्षिता सास्मद्दर्शने रूपकभेद एवेति । अत एवात्र तत्सामग्र्यभावादुत्प्रेक्षोदाहरणत्वं न वाच्यम् । एवम् 'अपरः पाकशासनो राजा' इत्यत्रापि दृढारोपमेव रूपकम् । एतच्चालंकारानुसारिण्यामुत्प्रेक्षाविचारे ग्रन्थकृतैव दर्शितम् । फलोत्प्रेक्षा यथा--'गिजन्ते मङ्गलगाहिआहि वरगोत्तदत्तंकण्णाए। सोत्तुं विणिग्गओ उअह होन्तबहुआहि रोमञ्चो ॥' अत्र श्रोतुमिवेति फलमुत्प्रेक्षितम् । श्लिष्ट इत्यर्थिशरवाचकत्वात्।