________________
अलंकारसर्वखम् । अत्र दुःखं गुणः । द्रव्योत्प्रेक्षा यथा'पातालमेतन्नयनोत्सवेन विलोक्य शून्यं शशलाञ्छनेन । इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः ॥'
अत्र चन्द्रस्यैकत्वाद्रव्यत्वम् । एतानि भावाभिमानेनोदाहरणानि । अभावाभिमानेन यथा
'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ।
अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ।' अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादावंप्यूह्यम् । गुणस्य निमित्तत्वं यथा-'नवबिसलताकोटिकुटिलः' इत्यादावुदाहृतस्य कुटिलत्वस्य । क्रियाया यथा-'ईदृक्षां क्षामतां गतौ' इत्यत्र क्षामतागमनस्य । निमित्तोपादानस्यैते उदाहरणे । अनुपादाने 'लिम्पतीव तमोऽङ्गानि' इत्यायुदाहरणम् । हेतूत्प्रेक्षा यथा--'विश्लेषदुःखादिव बद्धमौनम्' इत्यादौ । स्वरूपोत्प्रेक्षा यथाधमित्वमवस्थापितमित्यग्र एव वक्ष्यामः । द्रव्योत्प्रेक्षेति । द्रव्यस्य स्वरूपेणोत्प्रेक्षणम् । तस्यैव हि हेतूत्प्रेक्षा यथा-'जयति शिशिरतायाः कारणं सा हिमाद्रेस्त्रिपुरहरकिरीटादापतन्ती युसिन्धुः । सततसहनिवासी क्षीरसिन्धोः प्रसूतो हिमकर इव हेतुः श्वैत्यशैत्यस्य यस्याः ॥' अत्रेन्दोर्द्रव्यस्य हेतुत्वेनोत्प्रेक्षणम् । फलोत्प्रेक्षा यथा-'मध्येसलिलमादित्यसंमुखं धूलिधूसराः । कुमुदिन्यस्तपस्यन्ति चन्द्रायेव दिने दिने ॥' अत्र चन्द्रस्य द्रव्यत्वम् । एषामेव भावाभिमानोदाहरणत्वमतिदिशति-एतानीत्यादिना । अभ्यूह्यमिति अभावाभिमानोदाहरणम् । निमित्तोपादानस्येति । कुटिलत्वस्य क्षामतागमनस्य च साक्षानिर्देशात् । अनुपादान इति । तिरोधायकत्वादेनिमित्तस्य गम्यमानत्वात् । भेदान्तरेष्विति स्वरूपफलादिकेषु । ज्ञेयमिति प्रतीयमानत्वात् । तत्र स्वरूपोत्प्रेक्षा यथा'मलअसमीरसमागमसंतोसपणिच्चराभिसव्वत्तो । विव्याहइ चलकिसलअकराहि साहाहि महुलच्छी ॥' अत्र मधुलक्ष्मीगतत्वेन चलकिसलयकरत्वादि निगीर्य व्याहरणक्रियास्वरूपेणोत्प्रेक्षिता । तदोन्मुख्योत्पादकत्वादि च निमित्तमनुपात्तम् । यत्पुनरुद्देशे प्रतीयमानो. त्प्रेक्षायां निमित्तानुपादानं न संभवतीत्युक्तं तत्र प्रायस्तस्याः स्वरूपोत्प्रेक्षणस्यासंभवो नि. मित्तम् । ग्रन्थकृतो हि प्रतीयमानोत्प्रेक्षा हेतुफलरूपैव भवतीत्यभिप्रायः । हेतुफलोत्प्रे. १. 'मन्तर्नयनो' ख. २. 'अभ्यूह्यम्' क. ३. 'उक्ते' ख. १. 'अत्र द्रव्यस्य' ख. २. 'भस्म' क.