Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 41
________________ अलंकारसर्वस्वम् । अभेदस्य प्राधान्याञदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः । तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवेऽपहुतिः । अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम् । साधर्म्य त्वनुगतमेव । यदाहुः–'उपमैव इति। प्रधानाप्रधानयोः संबन्धिशब्दत्वात् ।अन्यत्रान्यावाप आरोप इति । अन्यत्रेति प्रकृते मुखादौ । अन्यस्येत्यप्रकृतस्य चन्द्रादेः । स च सामानाधिकरण्येन वैयधिकरण्येन च निर्देशे भवति । न तु सामानाधिकरण्येन निर्देश एव सः। एवं हि-'याताः कणादतां केचित्' इत्यादावारोपसद्भावेऽपि न सामानाधिकरण्यमस्तीति व्याप्तिः स्यात्।आर्थ सामानाधिकरण्यमस्तीति नाव्याप्तिरिति चेत् , न। भिन्नयोः सामानाधिकरण्येन निर्देशो ह्यारोपलक्षणम् । न च तदत्र निर्दिष्टम् । वैयधिकरण्येन निर्देशात्तस्यार्थावसेयत्वात् । अर्थावसायो निर्देशश्च नैकं रूपम्। विप्रतिषेधात्। नीलमुत्पलमित्यादावपि गुणजातिरूपत्वेन भिन्नयोर्नीलोत्पलयोः सामानाधिकरण्येन निर्देशादारोपः प्रसज्यत इत्यतिव्याप्तिः स्यात् । न चारोपे भिन्नयोः सामानाधिकरण्येन निर्देश उच्यत इत्यसंभवोऽपि । इति न निरवद्यमेतदारोपलक्षणम् । यद्येवं तत्किशब्दे शब्दान्तरमर्थे वार्थान्तरमारोप्यत इति चेद्रमः । तत्र न शब्दे शब्दान्तरारोपः । मुखशब्दादेश्चन्द्रशब्दादिरूपत्वेनाप्रतीतेरन्योन्यविविक्तस्वविश्रान्तरूपोपलम्भादिति भवद्भिरेवोक्तत्वात् । किं त्वर्थेऽर्थान्तरारोपः । स च प्रयोजनपरतया तथा निर्दिश्यते न भ्रान्त्या । अत एव शुक्तिकायामिव रजतारोपो न मुखे चन्द्रारोपः । तस्य स्वरसत एवोत्थानेन भ्रमरूपत्वात् । अत एव तत्रारोपविषयस्यारोप्यमाणेनाच्छादितत्वेन प्रतीतिः । इह पुनर्जानान एव कश्चिञ्चन्द्रविविक्तं मुखं तत्र प्रयोजनपरतया चन्द्रार्थमारोपयति । अत एवोक्तमारोपविषयानपह्नव इति । भवद्भिरप्यनेनैवाशयेन प्रतिपादनभ्रमोऽयं न भ्रान्ताप्रतिपत्तिरित्याद्युक्तम् । तस्येत्यारोपस्य विषयः प्रकृतः विषयी चाप्रकृतः । ताभ्यामवष्टब्धत्वं युक्तम् । यदुक्तम्-'सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा' इति । अन्यथेति । अपहवे । एवमनेनापढुतिरूपकयोर्भेदोऽप्युक्तः । आहुरिति दण्ड्यादयः । अतश्च साधर्म्यसद्भावात्तदनुयायिभेदत्रयानुप्राणितत्वमप्यस्य ज्ञेयम् । यथा-'कंदर्पद्विपकर्णकम्बुमसितैर्दानाम्बुभिाञ्छितं संलमाअनपुञ्जकालिकमलं गण्डोपधानं रतेः । व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम्॥' अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम् । लाञ्छितत्वाङ्कितत्वयोः शुद्धसामान्यरूपत्वम् । सुधासहचरत्वस्थानुगतत्वादनुगामितेति भेदत्रयानुप्राणितत्वम् । अनेन च सादृश्यनिमित्त एवारोपो रूपकमित्युक्तं भवति । केषांचिदपि संबन्धान्तरहेतुरप्यारोपो रूपकाङ्गमेवेति मतम् । यदाहालंकारभाष्यकारः-'लक्षणापरमार्थ यावता रूपकस्वरूपं' इत्युपक्रम्य 'सारोपान्या च सादृश्यावा संबन्धान्तराद्वा' इत्यादि । स तु यथा-'अमृतकवलः शोभाराशिः प्रमोदरसप्रपा सितिमशकटं ज्योत्स्नावापी तुषारघरटिका । मनसिजवसी शृ. कारश्रीविमानमहो नु भो निरवधिसुखश्रद्धा दृष्टेः कृती मृगकेतनः ॥' अत्रेन्दुरूप कारणे

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218