________________
२२
काव्यमाला। 'यो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।
तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥' इदं सार्थकत्वे । एवमन्यज्ज्ञेयम् ।।
शब्दार्थपौनरुक्त्यं प्ररूढं दोषः ॥
प्ररूढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् । यदाहुः-'शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ।' इति ।
ग्यमिति चिरंतनालंकारवन विभज्य लक्षितमिति भावः । एवं चित्रेऽपि ज्ञेयम् । अन्यदिति प्रकारद्वयम् । तत्रानर्थकं यथा-'सरसमन्थरतामरसादरभ्रमरसजलया नलिनी मधौ । जलधिदेवतया सदृशीं श्रियं स्फुटतरागतरागरुचिर्दधौ ॥' अत्र तरागेत्यनर्थकम् । अनर्थकत्वसार्थकत्वयोर्यथा-'साहारं साहारं साहारं मुणइ सजसाहारम् । सं ताणं संताणं संताणं मोहसंताणम् ॥' अत्र सजसाहारमित्यनर्थकम् । अन्यानि तु सार्थकानीति न कश्चिद्दोषः । इदं च स्थाननियममन्तरेण न भवति । यदुक्तम्-‘पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्' इति । अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थमभिधानम् । स च स्थाननियमो वैवक्षिको न वास्तवः । यथा-'मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम् । अभृत वारितवारिदविप्लवां स्फुटितताम्रतताम्रवणं जगत् ॥' अत्राक्षरद्वयानन्तरं यमकविन्यासात्स्थानस्य नियतत्वम् । यथा वा'छिन्याद्भयाति तव कार्तिकेयः शशी जितो येन स कार्तिकेयः । उत्खातदन्तो गणनायकस्य स्वामी यदन्यो गणनाय कस्य ॥' अत्र चार्धद्वये यमकद्वयमिति स्थाननियमो द्विधैवेति नास्यालंकारस्य क्षतिः काचित् । अतश्च 'श्रुतरसिक तरसिकलितरुकलितरुजालहरिजालहरिणतमः (2)। हरिणतमश्च ततस्तव ततस्तवः स्याद्यशोराशिः ॥' इत्यत्र सत्त्वेऽपि स्वरव्यञ्जनसमुदायपौनरुक्त्यस्य स्थाननियमाभावाद्यमकाभासोऽयं वृत्त्यनुप्रासः । प्ररूढमिति । यर्थाभासनं विश्रान्तेः । यथा-'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तमः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥' अत्रेन्दुरिति । अत्रिनेत्रक्षीरोदजन्मत्वादिन्दोद्वित्वान्नैतत्प्ररूढमिति न कार्यम् । कविसमये तथात्वस्याप्रतीतेः । आहुरित्याक्षपादाः । अन्यत्रानुवादादिति । अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोषाय । अक्रियमाणं पुनर्दोषाय भवतीति भावः । यथा-'उदेति रक्तः सविता रक्त एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥' अत्र रक्त इति । 'शिरः शार्व स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोधो गङ्गावद्वयमुपगता नूनमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥' अत्र पौनरुक्त्येऽपि शब्दस्या
१. 'श्रुतरसिक तरसिकलितं तरुकलिततरजालहरिणतमः' ख. २. 'भासमान' ख.