________________
अलंकारसर्वस्वम् ।
तात्पर्यभेदवत्तु लाटानुप्रासः ॥ तात्पर्यमन्यपरत्वम् । तदेव भिद्यते, न तु शब्दार्थयोः खरूपम् । यथा'ताला जाअन्ति गुणा जाला दे सहिअएहि घेप्पन्ति । रइकिरणाणुगाहिआइँ होन्ति कमलाइँ कमलाई ॥' 'ब्रूमः कियन्नय कथंचन कालमल्पमत्राब्जपत्र नयने नयने निमील्य । हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयमहमागत इत्यवैहि ॥' अत्राब्जपत्रनयने नयने निमील्येत्यादौ विभक्त्यादेरपौनरुक्त्येऽपि ब
हुतरशब्दार्थपौनरुक्त्यालाटानुप्रासत्वमेव ।
'काशाः काशा इवाभान्ति (न्तः) सरांसीव सरांसि च । चेतांस्याचिक्षिपुर्यूनां निम्नगा निम्नगा इव ॥'
२३
पुनर्वचनं प्रतीत्यन्तरजनकत्वाद्दोषः । तदेवाप्ररूढमलंकार इत्याह- तात्पर्येत्यादि । अन्यपरत्वमिति । एकस्य वाच्यविश्रान्तत्वेऽन्यस्य लक्ष्ये व्यङ्गये वार्थे वाच्यविश्रातिरित्यर्थः । भिद्यत इति पर्यवसाने । आमुखे हि शब्दवदर्थस्याप्येकत्वेनैवावभासः । अत एवाह-न शब्दार्थस्वरूपमिति । एवं च नायं द्वयोर्वाच्यविश्रान्तत्वेऽनुवादमात्रमलंकारः । नहि दोषाभावमात्रमलंकारस्वरूपम् । एवं हि सत्यपशब्दाद्यभावस्याप्यलंकारत्वप्रसङ्गः । यत्परमादावुक्तं तत्परमेव पुनर्नोच्यते । इत्येव सामान्येन यद्यप्यन्यपरत्वमुच्यते तद्विरोधादिवत् 'उदेति रक्तः सविता -' इत्यादौ दोषाभावमात्रत्वेऽप्यलंकारत्वोचितस्यान्यपरत्वाख्यस्यातिशयस्यापि भावादलंकारत्वप्रसङ्गः । न चैतावतैव कश्चिदतिशयः प्रतीयत इति येथोक्तमेव युक्तम् । एकः कमलशब्दो वाच्यपर्यवसितः अन्यश्च सौरभबन्धुरत्वाद्यनेकधर्मनिष्ठ इति तात्पर्यभेदः । ब्रूमः कियदिति । अत्राब्जशब्दस्याप्यपौनरुक्त्याल्लाटानुप्रासत्वमेवेति चिन्त्यम् । अत्र हि द्वयोरपि नयनशब्दयोर्वाच्यविश्रान्तत्वादन्यपरत्वाभावान्नास्ति तात्पभेदः । स एव ह्यस्य जीवितम् । अन्यथा ह्यनुप्रासमात्रत्वं स्यानालंकारत्वम् । अथापि केवलनयनशब्दस्य स्वार्थविश्रान्तिः संसर्गपदान्तर्गतस्य पुनः स्वार्थमुपसर्जनीकृत्य संज्ञिनमभिदधतश्च स्वार्थत्यागात्परार्थे च वृत्तेरस्त्येव लक्ष्यनिष्ठत्वमिति चेत्, नैतत् । लक्षणासामध्यभावात् । अत्र ह्यन्यपदार्थप्रधानत्वान्नयनशब्दस्य गुणीभावः, न मुख्यार्थबाधः | स्वार्थ एव विश्रान्तेः । न च गुणीभावमुख्यार्थबाधयेोरेकत्वम् । सतो हि मुख्यार्थस्य कंचिदपेक्ष्य १. 'न शब्दार्थस्वरूपम्' इति टीकासंमतः पाठो भाति २ क- पुस्तके 'काशाः काशा इत्यादी' एतावदेवास्ति.
१. 'प्रयोक्तमेव ज्यायः' ख.