Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला। ___ इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः । अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेभिन्नविषयत्वात् ।
'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥' तदेवं पौनरुक्त्ये पञ्चालंकारः ॥ निर्गदव्याख्यातमेतत् । वर्णानां खड्गाद्याकृतिहेतुले चित्रम् ॥
पौनरुक्त्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम् । यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेगुणीभावः । बाधः पुनः स्वस्मिन्नेवाविश्रान्तिरित्यनयोर्महान्भेदः । नाप्यत्र किंचित्प्रयोजन न वारूढिरियमित्येतत्पौनरुक्त्यमात्रम् । एवम्, 'सितकरकररुचिरविभा विभाकराकार धरणिधरकीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥' इत्यादावपि ज्ञेयम् । चमत्कारस्त्वत्रानुप्रासकृतोऽवसेयः । नन्वनन्वयेऽपि शब्दपौनरुक्त्यं दृश्यत इति तत्रापि किमयमेवालंकारः किमु स एवेत्याशङ्कयाह-अनन्वय इत्यादि । आनुषङ्गिकमिति । न पुनः साक्षात्प्रयोजकमित्यर्थः । शब्दैक्यं विनाप्यनन्वयस्य प्रतिपादनात् । अत्र हि शब्दैक्यं क्वचिदक्रियमाणमनौचित्यमावहति क्वचिन्नेति भावः। तत्तु यथा-'यच्चक्षुर्जगतां सहस्रकरवद्धाम्नां च धामार्कवन्मोक्षद्वारमपावृतं च रविवद्धान्तान्तकृत्सूर्यवत् । आत्मा सर्वशरीरिणां सविटवत्तिग्मांशुवत्कालकृत्साध्वीं नः स गिरं ददातु दिनकृद्योन्यैरतुल्योपमः ॥' अत्र सहस्रकरादयोऽन्य इवाभासमाना अनन्वयप्रतीति विघ्नयन्तीति शब्दैक्याभावोऽनौचित्यमावहति न पुनरनन्वयस्याभावात् । 'स्थैर्याद्भर्व्यापकत्वाद्वियदखिलजगत्प्राणभावानभस्वान्भास्वान्विश्वप्रकाशायुगपदपि सुधासूतिराह्लादनाच्च । वह्निः संहारकत्वाज्जलमखिलजनाप्यायनाच्चोपमानं सत्यात्मत्वेऽपि यस्य प्रभवतु भवतां सोऽष्टमूर्तिः शिवाय॥' अत्र निर्विघ्नमेवानन्वयस्य प्रतीतेः शब्दैक्याभावो नानौचित्यावहः । तुशब्दो व्यतिरेके । साक्षादिति । शब्दैक्यं विनास्यानुत्थानात् । एतदेवोपसंहरति-तदेवमित्यादि। पुनवक्तवदाभासमर्थपौनरुक्त्याश्रितं, छेकानुप्रासादयस्त्रयः शब्दपौनरुक्त्याश्रयाः । लाटानुप्रासस्तूभयाश्रित इति पञ्च पौनरुक्त्याश्रिता अलंकाराः । यद्यप्युक्तेः शब्दार्थगतत्वेनो, चरणाभिधानतया भेदात्सामान्याभावात्कस्य पञ्चप्रकारत्वं तथापि तस्या द्वयोरप्यनुगमादेकत्वेन प्रतीतेरुक्तिसामान्यनिबन्धनमेव प्रकारिप्रकारभाववचनम् । यच्चार्थभेदेन शब्दस्यापि भिन्नत्वं तदवास्तवम् । प्रतीतावेकतयैवावभासात् । अत एवानेकार्थवर्गादिष्वपि तथात्वेनैव व्यवहारः । वर्णानामित्यादि । उच्चारणकाले स्थानविशेषश्लिष्टवर्णात्मकखड्गादिसंनिवेशस्याभावात्पौनरुक्त्यप्रतीति त्रेति किमाश्रयोऽयमलंकार इत्याशङ्कयाह-यद्यपीत्यादि।
१. निर्विवादं व्याख्यातम्' ख.

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218