SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । विस्तरभयान्नोच्यन्ते । उदाहरणं मदीये श्रीकण्ठस्तवे यथा'अहीनभुजगाधीशवपुर्व लयकङ्कणम् । शैलादिनन्दिचरितं क्षतकंदर्पदर्पकम् ॥ वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् । ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥' 'दारुणः काष्ठतो जातो भस्मभूतिकरः परः । रक्तशोणाचैिरुच्चण्डः ः पातु वः पावकः शिखी ॥' एतच्च सुबन्तापेक्षया । तिङन्तापेक्षया च यथा तत्रैव — 'भुजंगकुण्डली व्यक्त शिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ||' १९ शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च । अलंकार प्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते । इति द्वैविध्यमेव स्वरव्यञ्जनसमुदायपौनरुक्त्यं च । कार्यालंकरणभावात्तस्याश्रयाश्रयिभावेनोपपत्तेः । अत एव सर्वेषामेवार्थालंकाराणामुपमितार्थादिवादित्वाच्छब्दस्य तदलंकारत्वं स्यादित्युक्तम् । नापि तृतीयः । पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् । पौनरुक्त्याख्यधर्मप्रयोजकीकारेणालंकारस्योपक्रान्तत्वात् श्लिष्टत्वस्येद्दानौपयिकत्वात् । तत्पुनरत्रार्थपौनरुक्त्यावगमे निमित्तमात्रम् । निमित्तनिमित्तिभावश्च नालंकारत्वप्रयोजक इत्यविवादः । तस्मादर्थाश्रयत्वात्पौनरुक्त्यस्य तदलंकारत्वमेवेति युक्तम् । एवं वक्रलंकारतापि निरस्ता । सर्वेषामपि वऋतिशयरूपत्वात्तथात्वानुपपत्तेः । विस्तरभयादिति । न तु चित्रत्वाभावात् । नोच्यन्त इति । वस्तुतस्तु संभवन्त्येवेत्यर्थः । अतश्चायं प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः । क्रमेण यथा-' - 'तुहिनक्षितिभृद्युष्मान्पातात्सर्वत्र सर्वदा ख्यातः । हिमवानवतु सदा वो विश्वत्र समागतः ख्यातिम् ॥ ' ' नदीप्रकरमुल्लिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च, सपर्याणां रुचिं वहन्तं सर्वत्र पूजनीयं च, सकुम्भं सकलशंचरन्तं च, सदानदन्तं मदपर्याविलदशनं करटं कमपि बिभ्रतं कवाटविभ्रमममुञ्चन्तं च कुञ्जराजिवर्धितरुचिं वारणरणरणिकाकुलितं च, राजमानविसंधायिनं विराजमानं च, शारीभूतं मदसलिलेन शबलीभूतं च, इति पुनरुक्ताश्रयम्' इत्यनङ्ग लेखायां हस्तिवर्णने । 'बतहन्तासितः कालो गोविभावसुदी - धितीः । क्षिपास्य रक्षावसितश्वेतराजयशोभय ॥' असमस्तपदं तु ग्रन्थकृतैवोदाहृतम् । केवलस्वरपौनरुक्त्यं किं न गणितमित्याशङ्कयाह - अलंकारेत्यादि । यथा - 'इन्दीव१. ' तथात्वोपपत्तेः.' ख. च,
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy