SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २० काव्यमाला। संख्यानियमे पूर्व छेकानुप्रासः॥ द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं संख्यानियमः । पूर्व व्यञ्जनसमुदायाश्रितं यथा 'किं नाम दर्दुर दुरध्यवसायं सायं कायं निपीड्य निनदं कुरुषे रुषेव । एतानि केलिरसितानि सितच्छदाना ___ माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥' अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहकाभिधानलक्षणः संकरः । छेका विदग्धाः । अन्यथा तु वृत्त्यनुप्रासः॥ केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं व्यादीनां च परस्परसादृश्यमन्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेह रम्मि इन्दम्मि इन्दआलम्मि इन्दिअगणम्मि इन्दिन्दिरम्मि इन्दमि जोइण्णो सरिससंकप्पो॥' अत्र स्वरपौनरुक्त्यस्य चारुत्वाभावान्नालंकारत्वम् । अत्र केवलव्यञ्जनस्वरव्यञ्जनसमुदायाश्रितमलंकारद्वयं लक्षयति-संख्येत्यादिना । एकवचनस्य जात्या बहुत्वप्रसङ्गाद्वहुवचनस्य च त्र्यादीनां स्वयमेव बहुत्वात्संख्यानियमो द्वित्व एव संभवतीति द्वयोरित्युक्तम् । द्वयोरप्येकधा सादृश्यं वृत्त्यनुप्रास एवेत्याशङ्कयाह-अनेकधेति । यकारमात्रेत्यनेन द्वयोरेवे सादृश्यमस्य जीवितमिति ध्वनितम् । यद्यपि चायं व्यञ्जनमात्रपौनरुक्त्याख्यस्य सामान्यलक्षणस्य. संभवादनुप्रास एवान्यैरन्त वितः तथाप्यस्य ग्रन्थकृता उद्भटमतानुरोधादिह लक्षणं कृतम्-अन्यथेत्यादि । एतदेव भेदनिर्देशं कुर्वन्व्याचष्टेकेवलेत्यादि । समुदायः पारिशेष्याद्व्यञ्जनद्वयरूपः । एकति चात्रैव संबद्धव्यम् । केवलस्य त्र्यादीनां चानेकधापि सादृश्यस्यानेन व्याप्तत्वात् । एतच्च समस्तासमस्ताक्षरत्वेन संभवतीत्यस्य प्रायः षट् प्रकाराः । क्रमेण यथा-'यया यायाय्यया यूयं यो यो यं येययायया । ययुयायि ययेयाय ययेयायाय याययुक्॥' असमस्ताक्षरं तु ग्रन्थकृतैवोदाह'तम् । 'दीनादीनां ददौ दानं निननाद दिने दिने । निन्दिन्द नन्दनानन्दानदुनोदिननन्दनम् ॥' 'रुच्याभिः प्रचुराभिस्तरुशिखरापाचिताभिरुचिताभिः । अचिररुचिरुचिररुचिभिश्चिराच्चिराभिश्चमत्कृतं चेतः ॥ ततः सोमसिते मासि सततं संमतं सताम् । अतामसो १. 'संकम्मा' क. २. 'तत्र' ख. ३. 'पारिशेषात्' क. ४. 'अनेकधेति' क. ५. 'खूबानी' इति नाम्ना कश्मीरादिषु प्रसिद्धैः फलविशेषैः.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy