Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ औपपातिकउपाङ्गसूत्रम् - ३ -दलचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ये ये ते तथा । 'उवनिग्गयनवतरुणपत्तपल्लवकोमलउज्जलचलंतकिसलयकुमालपवालसोहियवरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैः - अत्यभिनवपत्रगुच्छैः तथा कोमलोज्ज्वलैश्चलद्भिः किशलयैः - पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कुराणि अग्रशिखराणि येषां ते तथा । इह च अङ्कुरप्रवालपल्लवकिसलय पत्राणामल्पबहुबहतरादिकालकृतावस्थाविशेषाद्विशेष: सम्भाव्यत इति । ७४ 'निचं कुसुमिया' इत्यादि व्यक्तं, नवरं 'माइय'त्ति मयूरिताः 'लवइय'त्ति पल्लविताः 'थवइय'त्ति स्तबकवन्तः 'गुलइया' गुल्मवन्तः 'गोच्छिया' जातगुच्छाः, यद्यपि च स्तवकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जलमिय'त्ति यमलतयासमश्रेणितया व्यवस्थिताः, 'जुवलिय'त्ति युगलतया स्थिताः, 'विणमिय'त्ति विशेषेण फलपुष्पभारेण नताः, 'पणमिय'त्ति तथैव नन्तुमारब्धाः, प्रशब्दस्यादिकम्र्म्मार्थत्वात् । 'निच्चं कुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियसुविभत्तपिंडिमंजरिवडिंसयधर' त्ति केचित् कुसुमिताद्येकैकगुणयुक्ताः अपरे तु समस्तगुणयुक्ताः, ततः कुसुमिताश्च ते इत्येवं कर्म्मधारयः, नवरं सुविभक्ताः सुविविक्ताः सुनिष्पन्नतया पिण्डयो - लुब्यो मञ्जर्य्यश्च प्रतीतास्ता एव अवतंसकाः - शेखरकास्ता धारयन्ति ये ते तथा । 'सुयवरहिणमयणसाललोइलकोहंगकभिंगारककोंडलकजीवंजीव कनंदीमुहकविलपिंग लक्खकारंडचक्कवायकलहंससारसअनेग सणगणमिहुणविरइयसहुण्णइयमहुरसरणाइए' शुकादीनां सारसान्तानामनेकेषां शकुनगणानां मिथनैर्विरचितं शब्दोन्नतिकं च- उन्नतिशब्दकं मधुरस्वरं च नादितंलपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतम् । 'सुरम्मे' अतिशयरमणीयः । संपिंडियदरियभमरमहुकरिपहकरपरिलिन्तमत्तछप्पय कुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागे' संपिण्डिताः प्तानां भ्रमरमधुकरीणां वनसत्कानामेव पहकरत्ति - निकरा यत्र स तथा, परिलीयमाना–अन्यत आगत्य लयं यान्तो मत्तषटपदाः कुसुमासवलोलाः- किञ्जल्कलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तश्च - शब्दविशेषं विदधानाः देशभागेषु यस्य स तथा, ततः कर्म्मधारयः । 'अब्मन्तरपुप्फफले बाहिरपत्तोच्छष्णे पत्तेहि य पुष्फेहि य उच्छन्नपडिवलिच्छन्ने' अत्यन्तमाच्छादित इत्यर्थः, एतानि त्रीण्यपि क्वचिद्वृक्षाणां विशेषणानि दृश्यन्ते- 'साउफले' त्ति मिष्टफलः, 'निरोयए' त्ति रोगवर्जितः, 'अकण्टक' इति । कचित् 'नानाविहगुच्छगुम्ममंडवगरम्मसोहिए 'ति तत्र गुच्छा - वृत्ताक्यादयो गुल्मा - नवमालिकादयो मण्डपका - लतामण्डपादयः 'रम्मे'त्ति कवचिन्न दृश्यते । 'विचित्तसुहकेरभूए' विचत्रान् शुभान् केतून् ध्वजान् भूतः - प्राप्तः 'विचित्तसुहसे उकेउबहुले' त्ति पाठान्तरं तत्र विचित्राः शुभाः सेतवः - पालिबन्धा यत्र केतुबहुलश्च यः स तथा । 'वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए' वापीषु चतुरनसु पुष्करिणीषु - वृत्तासु पुष्करवतीषु वा दीर्घकासुच - ऋजुसारणीषु सुष्ठु निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा । मू. (३- वर्तते) पिंडिमणीहारिमसुगंधिसुहसुरभिमनहरंच महया गंधद्धणिं मुयंता नानाविहगुच्छगुम्ममंडवकधरकसु हसेउकेउबहला अनेगरहजाणजुग्गसिवियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150