Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 108
________________ मूलं-४९ १६७ भोजयितुं भुनानं वाऽनुमोदयितुमिति व्याख्येयं । 'तिदंडए'त्ति त्रयाणां दण्डकानां समाहारस्त्रिदण्डकानि 'कुंडियाओ यति कमण्डलवः 'कंचणियाओय'त्ति काञ्चनिकाः-रुद्राक्षमयमालिकाः करोडियाओयत्ति करोटिकाः-मृण्मयभाजनविशेषाः भिसियाओयत्ति वृषिका उपवेशनपट्टडिकाः 'छन्नालएय'त्तिषण्नाल-कानि त्रिकाष्ठिकाः 'अंकुसाए यत्ति अकृशकाः-देवार्चनार्थं वृक्षपल्लवाकर्षणार्थं अकृशकाः 'केसरियाओय'त्ति केशरिकाः-प्रमार्जनार्थानिचीवरखण्डानि 'पवित्तए यत्ति पवित्रकाणि-ताम्रमयान्यहुलीयकानि 'गणेत्तियाओ यत्ति गणेत्रिकाः-हस्ताभरणविशेषःछत्रकाण्युपानहश्च प्रतीताः । ___धाउरत्ताओ यत्ति धातुरक्ता-गैरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेति'त्ति प्रतिश्रृण्वन्ति अभ्युपगच्छन्ति, 'संपलियंकनिसन्न'त्ति सम्पर्यङ्क:-पद्मासनं, प्राणातिपातादिव्याख्या पूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्-'इठंति वल्लभं 'कंतंति कान्तं काम्यत्वात् 'पिय'त्ति प्रियं सदा प्रेमविषयत्वात् 'मणुण्णं'तिमनोज्ञं-सुन्दरमित्यर्थः, 'मणोमंतिमनस अभ्यतेप्राप्यतेपुनः पुनः संस्मरणतोयत्तन्मनोऽमं पेजंति सर्वपदार्थानांमध्ये अतिशयेन प्रियत्वात्प्रेयः। प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं, प्रेर्यं वा कालान्तरनयनात्, 'थेन्जंति कवचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढैः स्थैर्यसमारोपणात्, 'वेसासियंति विश्वासःप्रयोजनमस्येतिवैश्वासिकं, परशरीरमेव हि प्रायेणाविश्वासहेतुर्भवतीति, 'समय'ति सम्मतं तत्कृतकार्याणां सम्मतत्वात् 'बहुमयंति बहुसो बहूनां वा मध्ये मतम्-इष्टं यत्तद्बहुमतम् 'अणुमयं ति वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'भंडकरंडगसमाणं'ति आभरणकरण्डकतुल्यमुपादेयमित्यथः, तथा। ___ 'माणं सीय' मित्यादि व्यक्तं, नवरं माशब्दो निषेधार्थ, णङ्कारो वाक्यालङ्कारार्थ, इह च स्पृशत्वितियथायोगं योजनीयम्, अथवा 'माणं'तिमा एतच्छरीरमिति व्याख्येयं, 'माणंवाल'त्ति व्यालाः-श्वापदभुजगाः ‘रोगायंक'त्ति रोगाः-कालमहाव्याधयः आतङ्काः-तएव सद्योघातिनः 'परीसहोवसग्ग'त्ति परीषहाः-क्षुदादयो द्वाविंशति उपसर्गा-दिव्यादयः ‘फुसंतु' स्पृश्न्तु 'इतिकट्ठ'त्ति इतिकृत्वा इत्येवमभिसन्धाय यत्पालितमिति शेषः । “एयंपिणं'तिएतदपिशरीरं "वोसिरामित्तिकट्टइत्यत्र त्तिकट्ठत्ति इतिकृत्वा इति विसर्जन विधाय विहरन्तीति योगः, 'संलेहनाथूसिय'त्ति संलेखना-शरीरस्य तपसा कृशीकरणं तांतया वा 'झूसित्तिजुषटावा सेवितायेते तथा 'संलेहणझूसणाझूसियात्तिक्वचित्तत्र संलेखनायांकषायशरीरकृशीकरणे या जोषणा-प्रीति सेवा वा 'जुषी प्रीतिसेवनयो' रिति वचनात् सा तथा तया तांबा ये जुष्टाः-सेवितास्ते तथा संलेखनाजोषणाया वा झूसियत्ति-झूषि क्षीणा येते तथा। ___'भत्तपाणपडियाइक्खिय'त्ति प्रत्याख्यातभक्तपानाः 'पाओवगया' पादपोपगता वृक्षचनिष्पन्दतयाऽवस्थिता इत्यर्थः, कालं अणवकंखमाण'त्तिमरणमनवकाङ्क्षन्तः,आकाक्षन्ति हि मरणमतिकष्टं गताः केचनेति तनिषेध उक्तः 'अणसणाए छेइंति'त्ति अनशनेन व्यवच्छिन्दन्ति-परिहरन्तीत्यर्थः, एते च यद्यपि देशविरतिमन्तस्तथापिपरिव्राजकक्रयया ब्रह्मलोकंगता इत्यवसेयम्, अन्यथैतद्भणनं वृथैव स्याद्, देश विरिफलं त्वेषां परलोकाराधकत्वमेवेति, न च ब्रह्मलोकगमनं परिव्राजकक्रियाफलमेषामेवोच्यते, अन्येषामपि मिथ्याध्शां कपिलप्रभृतीनां तस्योक्तत्वादिति १३॥ मू. (५०) बहुजने णं भंते ! अन्नमन्नस्स एवमाइक्खइ एवं भासइ एवं परूवेइ एवं खलु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150