Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 119
________________ १७८ . औपपातिकउपाङ्गसूत्रम्-५१ प्रदेशो जीवो भवतीत्येवंविधवादिनस्तिष्यगुप्ताचार्यमताविसंवादिनः 'अव्वत्तिय'त्ति अव्यक्तं समस्तमिदं जगत् साध्वादिविषये श्रमणोऽयंदेवोवाऽयमित्यादिविविक्तप्रतिभा-सोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतमस्ति येषां ते अव्यक्तिकाः, अविद्यमाना वा साध्वादिव्यक्तिरेषामितक्यव्यक्तिकाःआषाढाचार्यशिष्यमतान्तःपातिनः 'सामुच्छेइय'त्तिनारकादिभावानां प्रतिक्षणं समुच्छेदं क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः 'दोकिरिय'ति द्वे क्रिये-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र समये जीवोऽनुभवतीत्येवं वदन्ति ये ते वैक्रिया गङ्गाचार्यमतानुवर्तिनः तेरासियत्तित्रीन् राशीन्जीवाजीवानोजीवरूपान्वदन्तियेते त्रैराशिकः रोहगुप्तमतानुसारिणः, 'अबद्धिय'त्ति अबद्धं सत्कर्म कञ्चुकवत्पार्श्वतः स्पृष्टमात्रं जीवं समनुगच्छन्तीतयेवंवदन्तीत्यबद्धिकाः गोष्ठामाहिलमतावलम्बिनः, उपलक्षणंचैतत्सक्रियावर्तिव्यापन्नदर्शनानामन्येषामपीति, पवयणनिण्हय'त्तिप्रवचनजिनागमं निढुवते-अपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिलवकाः, केवलं 'चरियालिंगसामण्णा मिच्छादिट्ठी'त्ति मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्ययाभिक्षाटनादिक्रियया लिङ्गेन च-रजोहरणादिना सामान्याः-साधुतुल्या इति १९ । धम्मियत्ति धर्मेण श्रुतचारित्ररूपेण चरन्ति ये ये ते धार्मिकाः, कुत एतदेवमित्यत आह-'धम्माणुआत्तिधर्म-श्रुतरूपमनुगच्छन्तियेतेधर्मानुगाः, कुत एतदेवमित्यत आह–'धम्मिट्ट' त्तिधर्मः श्रुतरूपएवेष्टो-वल्लभः पूजितोवायेषांतेधर्मेष्टाः धर्मिणां वेष्टाः धर्मीष्टाः अथवाधर्मोऽस्ति येषां ते धर्मिणःत एव चान्येभ्योऽतिशयवन्तो धर्मिष्ठाः, अतएव 'धम्मक्खाइ'त्तिधर्ममाख्यान्ति भव्यानांप्रतिपादयन्तीतिधर्माख्यायिनः धर्माद्वा ख्यातिः-प्रसिद्धिर्येषां ते धर्मख्यातयः, 'धम्मपलोइय'ति धर्म प्रलोकयन्ति-उपादेयतया प्रेक्षन्ते पाषण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः, धर्मगवेषणानन्तरं वा 'धम्मपलजण त्ति धर्मे प्ररज्यन्ते-आसज्यन्ते ये ते धर्मप्ररज्यनाः, ततश्च 'धर्मसमुदाचार'तिधर्मरूपचारित्रात्मकः समुदाचारः-सदाचारः सप्रमोदोवाऽऽचारो येषां ते धर्मसमुदाचाराः, अत एव 'धम्मेण चेव वित्तिं कप्पेमाण'त्ति धर्मेणैव-चारित्राविरोधेन श्रुताविरोधेन वा वृत्ति-जीविकां कल्पयन्तः-कुर्वाणा विहरन्तीति योगः, 'सुब्बय'त्ति सद्गताः शोभनचित्तवृत्तिवितरणा वा, 'सुप्पडियानंदा साहूहिँति सुठु प्रत्यानन्दः-चित्तालादो येषां ते सुप्रत्यानन्दाः साधुषु-विषयभूतेषुअथवासाहूहितिउत्तरवाक्येसम्बध्यते, ततश्चसाधुभ्यः सकाशात् साधवन्तिके इत्यर्थः, 'एगचाओ पाणाइवायाओ'ति एकस्मात् न सर्वस्मात् पाठान्तरे 'एमइयाओ'त्ति तत्र एककएवएककिकः तस्मादेककिकात, इतइदंसूत्रप्रायःप्रागुक्ताईनवरं मिच्छादसणसल्लाओत्ति इह मिध्यादर्शनं-तजन्यान्ययूथिकवन्दनादिका क्रिया ततो भावतो विरताः राजाभियोगादिभिस्त्वाकारैरविरता इति, 'कुट्टणपिट्टणतजणतालणवहबंधपरिकिलेसाओ'त्ति कुट्टनंखदिरादेरिव छेदविशेषकरणं पिट्टनं-वस्त्रादेरिव मुद्गरादिना हननं तर्जनं-परंप्रति ज्ञास्यसिरे जाल्मेत्यादिभणनं ताडनं-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगनं वधो-मारणं बन्धो--रज्ज्वादिना यन्त्रणं परिक्लेशो-बाधोत्पादनं 'सावजजोगोवहिय'त्ति सावधयोगा औपधिका-मायाप्रयोजनाः कषायप्रत्यया इत्यर्थः उपकरणप्रयोजना वा येते तथा 'कम्मत'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150