________________
१७८
.
औपपातिकउपाङ्गसूत्रम्-५१
प्रदेशो जीवो भवतीत्येवंविधवादिनस्तिष्यगुप्ताचार्यमताविसंवादिनः 'अव्वत्तिय'त्ति अव्यक्तं समस्तमिदं जगत् साध्वादिविषये श्रमणोऽयंदेवोवाऽयमित्यादिविविक्तप्रतिभा-सोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतमस्ति येषां ते अव्यक्तिकाः, अविद्यमाना वा साध्वादिव्यक्तिरेषामितक्यव्यक्तिकाःआषाढाचार्यशिष्यमतान्तःपातिनः 'सामुच्छेइय'त्तिनारकादिभावानां प्रतिक्षणं समुच्छेदं क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः 'दोकिरिय'ति द्वे क्रिये-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र समये जीवोऽनुभवतीत्येवं वदन्ति ये ते वैक्रिया गङ्गाचार्यमतानुवर्तिनः तेरासियत्तित्रीन् राशीन्जीवाजीवानोजीवरूपान्वदन्तियेते त्रैराशिकः रोहगुप्तमतानुसारिणः, 'अबद्धिय'त्ति अबद्धं सत्कर्म कञ्चुकवत्पार्श्वतः स्पृष्टमात्रं जीवं समनुगच्छन्तीतयेवंवदन्तीत्यबद्धिकाः गोष्ठामाहिलमतावलम्बिनः,
उपलक्षणंचैतत्सक्रियावर्तिव्यापन्नदर्शनानामन्येषामपीति, पवयणनिण्हय'त्तिप्रवचनजिनागमं निढुवते-अपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिलवकाः, केवलं 'चरियालिंगसामण्णा मिच्छादिट्ठी'त्ति मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्ययाभिक्षाटनादिक्रियया लिङ्गेन च-रजोहरणादिना सामान्याः-साधुतुल्या इति १९ ।
धम्मियत्ति धर्मेण श्रुतचारित्ररूपेण चरन्ति ये ये ते धार्मिकाः, कुत एतदेवमित्यत आह-'धम्माणुआत्तिधर्म-श्रुतरूपमनुगच्छन्तियेतेधर्मानुगाः, कुत एतदेवमित्यत आह–'धम्मिट्ट' त्तिधर्मः श्रुतरूपएवेष्टो-वल्लभः पूजितोवायेषांतेधर्मेष्टाः धर्मिणां वेष्टाः धर्मीष्टाः अथवाधर्मोऽस्ति येषां ते धर्मिणःत एव चान्येभ्योऽतिशयवन्तो धर्मिष्ठाः, अतएव 'धम्मक्खाइ'त्तिधर्ममाख्यान्ति भव्यानांप्रतिपादयन्तीतिधर्माख्यायिनः धर्माद्वा ख्यातिः-प्रसिद्धिर्येषां ते धर्मख्यातयः, 'धम्मपलोइय'ति धर्म प्रलोकयन्ति-उपादेयतया प्रेक्षन्ते पाषण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः, धर्मगवेषणानन्तरं वा 'धम्मपलजण त्ति धर्मे प्ररज्यन्ते-आसज्यन्ते ये ते धर्मप्ररज्यनाः,
ततश्च 'धर्मसमुदाचार'तिधर्मरूपचारित्रात्मकः समुदाचारः-सदाचारः सप्रमोदोवाऽऽचारो येषां ते धर्मसमुदाचाराः, अत एव 'धम्मेण चेव वित्तिं कप्पेमाण'त्ति धर्मेणैव-चारित्राविरोधेन श्रुताविरोधेन वा वृत्ति-जीविकां कल्पयन्तः-कुर्वाणा विहरन्तीति योगः, 'सुब्बय'त्ति सद्गताः शोभनचित्तवृत्तिवितरणा वा, 'सुप्पडियानंदा साहूहिँति सुठु प्रत्यानन्दः-चित्तालादो येषां ते सुप्रत्यानन्दाः साधुषु-विषयभूतेषुअथवासाहूहितिउत्तरवाक्येसम्बध्यते, ततश्चसाधुभ्यः सकाशात् साधवन्तिके इत्यर्थः,
'एगचाओ पाणाइवायाओ'ति एकस्मात् न सर्वस्मात् पाठान्तरे 'एमइयाओ'त्ति तत्र एककएवएककिकः तस्मादेककिकात, इतइदंसूत्रप्रायःप्रागुक्ताईनवरं मिच्छादसणसल्लाओत्ति इह मिध्यादर्शनं-तजन्यान्ययूथिकवन्दनादिका क्रिया ततो भावतो विरताः राजाभियोगादिभिस्त्वाकारैरविरता इति, 'कुट्टणपिट्टणतजणतालणवहबंधपरिकिलेसाओ'त्ति कुट्टनंखदिरादेरिव छेदविशेषकरणं पिट्टनं-वस्त्रादेरिव मुद्गरादिना हननं तर्जनं-परंप्रति ज्ञास्यसिरे जाल्मेत्यादिभणनं
ताडनं-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगनं वधो-मारणं बन्धो--रज्ज्वादिना यन्त्रणं परिक्लेशो-बाधोत्पादनं 'सावजजोगोवहिय'त्ति सावधयोगा औपधिका-मायाप्रयोजनाः कषायप्रत्यया इत्यर्थः उपकरणप्रयोजना वा येते तथा 'कम्मत'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org