Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 112
________________ मूलं-५० १७१ दृश्यम्- “उवलद्धपुण्णपावे' 'आसक्संवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' आश्रवाःप्राणातिपातादयः संवराः-प्राणातिपातविरमणादयः निर्जरा कर्मणो देशतः क्षपणं क्रियाःकायिक्यादिकाःअधिकरणानि-खङ्गादिनिर्वर्तनसंयोजनानिबन्धमोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, 'असहेजत्ति अविद्यमानसाहाय्यः कुतीर्थिकप्रेरतः सन् सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवासुरनागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्ने' इति देवा-वैमानिकाः असुरनागत्ति-असुरकुमारा नागकुमाराश्चेति भवनपतिविशेषाः सुवण्णत्तिसद्वर्णा ज्योतिष्का इत्यर्थः, कचिद्गरुडेत्ति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा भवनपतिविशेषाः यक्षराक्षसकिन्नरकिम्पुरुषाः व्यन्तरभेदाः, गरुडत्ति-गरुडचिह्नाः सुवर्णकुमाराः, गन्धर्वमहोरगाश्च व्यन्तराः। 'इणमोनिग्गन्थेपावयणे त्तिअस्मिन्निग्रन्थेप्रवचने निस्संकिय त्तिनिसन्देहः निकंखिय'त्ति मुक्तदर्शनान्तरपक्षपातः निविइगिच्छे'त्तिनिर्विचिकित्सकः फलंप्रति निशङ्कः 'लद्धडे'त्ति लब्धार्थोऽर्थश्रवणतः ‘गहिय?'त्तिगृहीतार्थोऽवदारणतः पुछियडे'त्तिपृष्ठार्थसंशयेसति अहिगय?'त्ति अधिगतार्थोऽभिगतातो वा अर्थावबोधात् विणिच्छियडे'त्ति विनिश्चितार्थः एदम्पर्योपलम्भात्, अतएव अहिमिंजपेम्माणुरागरत्ते' अस्थीनिच-कीकसानि मिञाच-तन्मध्यवर्ती धातुविशेषः अस्थिमिञास्ताः पेमानुरागेण सार्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ताइवरक्ता यस्य स तथा, केनोल्लेखेनत्याह। ___ 'अयमाउसोओ ! निग्गंथे पावयणे अढे अयं परमठू सेसे अणठे'त्ति, अयमितिप्राकृतत्वादिदम् ‘आउसो त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं, क्वचित् 'इणमोनिग्गन्थे' इति श्यते, 'सेसे'त्ति शेष-धनधान्यपुत्रकलत्रमित्रराज्यकुप्रवचनादिकमिति, ऊसियफलिहेत्तिउच्छ्रितम्उन्नतं स्फटिकमिव स्फटिकं चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाप्तया परिपुष्टमना इत्यर्थः, इतिवृद्धव्याख्या, अन्ये त्वाः-उच्छितः-अर्गलास्थानादपनीयोर्वीकृतो न तिरश्चीनः, कपाटपश्चाभागादपनीत इत्यर्थः, उत्सृतो वा अपगतः परिघः-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरिघोवा, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वारइत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य भिक्षुकत्वाद्, अत एव पुस्तके लिखितं यथा 'ऊसियफलिहे'त्यादिविशेषणत्रयं नोच्यते।। _ 'अवंगुयदुवारे'त्ति अपावृत्तद्वारः-कपाटादिभिरस्थगितगृहद्वारः, सद्दर्शनलाभेन न कुतोऽपिपाषण्डिकाद्विभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीतिभावइति वृद्धव्याख्या, केचित्वाहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वार इत्यर्थः, इदं चाम्भडस्य न घटते, 'चियत्त अंतेउरघरदारपवेसी त्ति चियत्तोति-लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः, अन्ये त्वाहुः-चियत्तोत्ति-नाप्रीतिकरोऽन्तः पुरगृहे द्वारेण नापद्वारेण प्रवेशः-शिष्टजनप्रवेशनं यस्य स तथा,अनीष्यालुंताप्रतिपादनपरं चेत्थमिदं विशेषणं, न चाम्मडस्येदं घटते, अन्तः पुरस्यैवाभावादिति, क्वचिदेवं श्यते 'चियत्तघरतेउरपवेसी'ति चियत्तेत्ति-प्रीतिकारिण्येवगृहे वाऽन्तःपुरेवाप्रविशतीत्येवंशीलो Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150