________________
मूलं-५०
१७१ दृश्यम्- “उवलद्धपुण्णपावे' 'आसक्संवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' आश्रवाःप्राणातिपातादयः संवराः-प्राणातिपातविरमणादयः निर्जरा कर्मणो देशतः क्षपणं क्रियाःकायिक्यादिकाःअधिकरणानि-खङ्गादिनिर्वर्तनसंयोजनानिबन्धमोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, 'असहेजत्ति अविद्यमानसाहाय्यः कुतीर्थिकप्रेरतः सन् सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवासुरनागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्ने' इति देवा-वैमानिकाः असुरनागत्ति-असुरकुमारा नागकुमाराश्चेति भवनपतिविशेषाः सुवण्णत्तिसद्वर्णा ज्योतिष्का इत्यर्थः, कचिद्गरुडेत्ति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा भवनपतिविशेषाः यक्षराक्षसकिन्नरकिम्पुरुषाः व्यन्तरभेदाः, गरुडत्ति-गरुडचिह्नाः सुवर्णकुमाराः, गन्धर्वमहोरगाश्च व्यन्तराः।
'इणमोनिग्गन्थेपावयणे त्तिअस्मिन्निग्रन्थेप्रवचने निस्संकिय त्तिनिसन्देहः निकंखिय'त्ति मुक्तदर्शनान्तरपक्षपातः निविइगिच्छे'त्तिनिर्विचिकित्सकः फलंप्रति निशङ्कः 'लद्धडे'त्ति लब्धार्थोऽर्थश्रवणतः ‘गहिय?'त्तिगृहीतार्थोऽवदारणतः पुछियडे'त्तिपृष्ठार्थसंशयेसति अहिगय?'त्ति अधिगतार्थोऽभिगतातो वा अर्थावबोधात् विणिच्छियडे'त्ति विनिश्चितार्थः एदम्पर्योपलम्भात्, अतएव अहिमिंजपेम्माणुरागरत्ते' अस्थीनिच-कीकसानि मिञाच-तन्मध्यवर्ती धातुविशेषः अस्थिमिञास्ताः पेमानुरागेण सार्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ताइवरक्ता यस्य स तथा, केनोल्लेखेनत्याह।
___ 'अयमाउसोओ ! निग्गंथे पावयणे अढे अयं परमठू सेसे अणठे'त्ति, अयमितिप्राकृतत्वादिदम् ‘आउसो त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं, क्वचित् 'इणमोनिग्गन्थे' इति श्यते, 'सेसे'त्ति शेष-धनधान्यपुत्रकलत्रमित्रराज्यकुप्रवचनादिकमिति, ऊसियफलिहेत्तिउच्छ्रितम्उन्नतं स्फटिकमिव स्फटिकं चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाप्तया परिपुष्टमना इत्यर्थः, इतिवृद्धव्याख्या, अन्ये त्वाः-उच्छितः-अर्गलास्थानादपनीयोर्वीकृतो न तिरश्चीनः, कपाटपश्चाभागादपनीत इत्यर्थः, उत्सृतो वा अपगतः परिघः-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरिघोवा, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वारइत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य भिक्षुकत्वाद्, अत एव पुस्तके लिखितं यथा 'ऊसियफलिहे'त्यादिविशेषणत्रयं नोच्यते।। _ 'अवंगुयदुवारे'त्ति अपावृत्तद्वारः-कपाटादिभिरस्थगितगृहद्वारः, सद्दर्शनलाभेन न कुतोऽपिपाषण्डिकाद्विभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीतिभावइति वृद्धव्याख्या, केचित्वाहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वार इत्यर्थः, इदं चाम्भडस्य न घटते, 'चियत्त अंतेउरघरदारपवेसी त्ति चियत्तोति-लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः, अन्ये त्वाहुः-चियत्तोत्ति-नाप्रीतिकरोऽन्तः पुरगृहे द्वारेण नापद्वारेण प्रवेशः-शिष्टजनप्रवेशनं यस्य स तथा,अनीष्यालुंताप्रतिपादनपरं चेत्थमिदं विशेषणं, न चाम्मडस्येदं घटते, अन्तः पुरस्यैवाभावादिति, क्वचिदेवं श्यते
'चियत्तघरतेउरपवेसी'ति चियत्तेत्ति-प्रीतिकारिण्येवगृहे वाऽन्तःपुरेवाप्रविशतीत्येवंशीलो
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org