Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 45
________________ १०४ औपपातिकउपाङ्गसूत्रम्-१७ स्नेहरहिता इत्यर्थः, 'कुम्मो व गुत्तिंदिय'त्तिकच्छपो हि कदाचिद् ग्रीवापाद लक्षणावयवपञ्चकेन गुप्तो भवति, एवमेतेऽपीन्द्रियपञ्चकेनेति, विहगइवविप्पमुक्कत्ति मुक्तपरिकरत्वादनियतवासाच, 'खग्गिविसाणं व एगजाय'त्ति खड्गी-आटव्यो जीवस्तस्य विषाणं-शृङ्गं तदेकमेव भवति तद्वदेकजाता-एकभूता रागादिसहायवैकल्यादिति। _ 'भारंडपक्खीव अप्पमत्त'त्ति भारण्डपक्षिणोः किलैकं शरीरंपृथग्ग्रीवं त्रिपादं च भवति, तौचात्यन्तमप्रमत्तयैव निहितेनोपमाकृतेति, कुंजरोइवसोंडीरा' हस्तीवशूराः कषायादिरिपून प्रतीत्येति, वसभोइवजायत्थामा' गौरिवोत्पन्नबलाः,प्रतिज्ञातकार्यभरनिर्वाहका इत्यर्थ, सीहो इव दुद्धरिसा' परीषहादिमृगैरनभिभवनीया इत्यर्थः। मंदरो इव अप्पकंपत्ति मेरुरिवानुकूलोपसर्गवायुभिरविचलितसत्वाः, 'सागरो इव गंभीर ति हर्षशोकादिकारणसम्पर्केऽप्यविकृतचित्ताः, 'चंदोइव सोमलेस्सत्ति अनुपतापहेतुमनः परिणामाः, सूरो इव दित्ततेअत्ति दीप्ततेजसोद्रव्यतः शरीरदीप्तया भावतोज्ञानेन, जच्चकणगमिव जायरूवा' जातं-लब्ध रूपं-स्वरूपं रागादिकुद्रव्यविरहात्यैस्तेजातरूपाः, वसुंधराइवसव्वफासविसह'त्ति स्पर्शा-शीतोष्णादयो अनुकूलेतराः परीषहास्तान् सर्वान् विषहन्ते येते तथा । _ 'सुहुअहुआसणोइव तेअसाजलंता' सुष्ठुहुतं-क्षिप्तं घृतादि यत्र हुताशने वह्नौ स तथा, तद्वत्तेजसा–ज्ञानरूपेणतपोरूपेण चज्वलन्तो-दीप्यमानाः, पुस्तकान्तरे विशेषणानिसर्वाण्येतानीदं चाधिकम्-'आदरिसफलगाइवपायडभावा' आदर्शफलकानीव-पट्टिकाइव प्रतले विस्तीर्णत्वादादर्शफलकानितानीवप्रकटा-यथावदुपलभ्यमानस्वभावाभावा-आदर्शपक्षे नयनमुखादिधर्मा साधुपक्षे अशठतया मनःपरिणामाः येषु ते प्रकटभावाः। मू. (१७ -वर्तते) नत्यि णं तेसि णं भगवंताणं कत्थइ पडिबंधे भवइ, से अ पडिबंदे चउब्बिहे पन्नत्ते, तंजहा-दब्बओ खित्तओ कालओ भावओ, दब्बओणं सचित्ताचित्तमीसिएसु दव्वेसु, खेत्तओ गामे वा नयरे वा रन्ने वा खेते वा खले वा घरे वा अंगणे वा। कालओ समए वा आवलियाए वा जाव अयणे वा अन्नतरे वादीहकालसंजोगे, भावओ कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तेसिंण भवइ । तेणंभगवंतोवासावासवजं अट्ठगिम्हहेमंतिआणि मासाणिगामेएगराइआ नयर पंचराइआ वासीचंदणसमाणकप्पा समलेढुकंचणा समसुहदुक्खाइहलोगपरलोगअप्पडिबद्धा संसारपारगामी कम्मनिग्धायणट्ठाए अब्भुडिआ विहरंति॥ वृ. 'नत्थी' त्यादि, नास्ति तेषां भगवतामयं पक्षो यदुत कुत्रचिदपि प्रतिबन्धो भवतीति, तद्यथा-द्रव्यतः ४, द्रव्यतः सचित्तादिषु ३, क्षेत्रतो ग्रामादिषु ७, तत्र क्षेत्रं-धान्यजन्मभूमि खलं-धान्यमलनपवनादिस्थण्डिलं, शेषाणि व्यक्तानि, कालतः समयादिषु, तत्र समयःसर्वनिकृष्टः कालः, आवलिका असङ्ख्यातसमया यावतकरणादिदं दृश्यम्-‘आणापाणू वा' उच्छ्वासनिश्वासकाल इत्यर्थः, 'थोवे वा' सप्तप्राणमाने 'लवे वा' सप्तस्तोकमाने 'मुहुत्ते वा' लवसप्तसप्ततिमाने अहोरात्रपक्षमासाःप्रतीताः, 'अयणं' दक्षिणायनमितरच, अन्यतरेवा 'दीहकालसंजोएत्ति वर्षशतादौ, भावतः क्रोधादिषु ६। ‘एवं तेसिं न भवइत्ति एवम्-अमुना प्रकारेण तेषां न भवति प्रतिबन्ध इति प्रकृतम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150