Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१३६
औपपातिकउपाङ्गसूत्रम्-३१
कुकुमादिविलेपनं यस्य स तथा, चः समुच्चये।
यद्यपिवर्णकशब्देननामकोषेचन्दनमभिधीयतेतथापि गोसीसचंदणानुलित्तगत्ते' इत्यनेनैव विशेषणेन तस्योक्तत्वादिह वर्णकश्चन्दनमिति न व्याख्यातम्, 'आविद्धमणिसुवण्णे'त्ति
आविद्धं-परिहितं, कप्पिय इत्यादिप्राग्वत, 'पिणद्धगेवेजगअंगुलिञ्जगललियंगयललियकयाभरणे पिनद्धानि-बद्धानि ग्रीवादिषु अवेयकाङ्गुलीयकानि-ग्रीवाभरणाङ्गुल्याभरणानि येन स तथा, ललिताङ्गके-ललितशरीरे कृतानि-विन्यस्तानि ललिताभरणानि तदन्यानि येन स तथा, ततः कर्मधारयः, अथवा पिनद्धानि अवेयकाङ्गुलीयकानि लितानवदेव ललितकचाभरणानि च-मनोज्ञकेशाभरणानि पुष्पादीनियेनस तथा, 'वरकडगतुडियथभियभुए वरकटकतुटिकैःप्रधानहस्ताभरणबाह्लाभरणविशेषैर्बहुत्वात्तेषां तैः स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा । _ 'अहियरुवसस्सिरीए' अधिकरूपेण सश्रीकः-सशोभोयः सतथा, 'मुद्रिकापिङ्गलाङ्गुलीक इतिकवचिश्यते, 'कुण्डलोद्योतिताननोमुकुटदीप्तशिरस्कः' इतिप्रतीतं, हारोत्थयसुकयरइयवच्छे' हारावस्तृतेन-हारावचछादनेन सुष्टुकृतरतिकं वक्ष-उरो यस्य स तथा, 'पालंबपलंबमाणपडसुकयउत्तरिछे' प्रलम्बेन-दीर्घेण प्रलम्बमानेन च-झुम्बमानेन पटेन सुष्ठ कृतमुत्तरीयम्उत्तरासङ्गो येन स तथा, 'नानामणिकणगरयणविमलमहरिहणिउमोवियमिसिमिसंतविरइयसुसिलिडविसिट्टलहआविद्धवीरवलए'।
नानामणिकनकरत्नैर्विमलैर्महाहनिपुणेन शिल्पिना ओवियत्ति-परिकर्मितः मिसिमिसंतत्ति-देदीप्यमानैर्विरचितानिनिर्मितानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणिआविद्धानि-परिहितानि वीरवलयानि वरवलयानि वायेनसतथा, सुभटो हि यदि कचिदन्योऽप्यस्ति वीरस्तदाऽसौ मां विजित्याऽऽमोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते।
मू. (३१-वर्तते) किंबहुना? कप्यरुखए चेवअलंकियविभूसिए नरवई सकोरंटमल्लदामेणं छत्तेणंधरिजमाणेणं चउचामरवालवीजियंगे मंगलजयसद्दकयालोए मजणघराओ पडिनिक्खमइ मज्झणघराउ पडिनिक्खमित्ता
-अनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियइब्भसेट्ठिसैणावइसत्यवाहदूअसंधिवाल सद्धि संपरिघुडे धवलमहामेहणिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पिअदंसणे नरवई
-जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ उवागच्छित्ता अंजनगिरिकूडसण्णिभंगयवई नरवई दूरूढे।।
वृ. 'कप्परुक्खएचेवत्तिकल्पवृक्ष इव अलंकियविभूसिए'त्तिअलङ्कृतो मुकुटादिभिः विभूषितो-वस्त्रादिभिरिति, 'सकोरंटमल्लदामेणं ति सकोरण्टानि-कोरण्टकाभिधानकुसुमस्तबकवन्ति माल्यदामानि-पुष्पसजो यत्र तत्तथा तेन । वाचनान्तरे पुनश्छत्रवर्णक एवं श्यते _ 'अब्भपडलपिंगलुञ्जलेण' अभ्रपटलमिव मेघवृन्दमिव बृहच्छायाहेतुत्वात् अभ्रपटलंपिङ्गलं च कपिशं सुवर्णकम्बिकानिर्मितत्वात् उज्ज्वलं-निर्मलं यत्तत्तथा, अथवा अभ्रम्-अभ्रकं पृथिवीकायपरिणामविशेषस्तत्पटलमिव पिङ्गलं च-उज्ज्वलं च यत्तत्तथा तेन, 'अविरलसमसहियचंदमंडलसमपभेणं' अविरलंघनशलाकावत्वेन समं तुल्यशलाकायोगेन सहियत्ति-संहतम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150