Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१३५
मूलं-३१ ललियंगयललियकयाभरणे वरकडगतुडियर्थभिअश्रुए अहियरुवसस्सिरीए मुद्दिआपिंगलंगुलिए कुंडलुजोविआणणे मउडदित्तसिरए हारोत्थयसुकयाइयवच्छे पालंबपलंबमाणपडसुकयउत्तरिजे नानामणिकणगरयणविमलमहरिहणिउणोविअमिसिमिसंतविरइयसुसिलिट्टविसिट्टलट्ट आविद्धवीरवलए।
वृ.'अट्टणसाल'त्तिव्यामशाला अनेगवायामजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहिं ति अनेकानि यानि व्यायामाय--व्यायामनिमित्तं योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वल्गनम्-उल्लानं व्यामईनं-परस्परस्याङ्गमोटनं मल्लयुद्धं प्रतीतं करणानि च-अङ्गभङ्गविशेषा मल्लशास्त्रप्रसिद्धाः, 'सयपागसहस्सपागेहिति शतकृत्वो यत्पक्कंमपरापरौषधीरसेन सह शतेन वाकर्षापणानां यत्पकंतच्छपाकमेवमितरदप, 'सुगंधतेल्लमाईएहिति अत्र अभ्यङ्गैरितियोगः, आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः ।
किम्भूतैरित्याह-'पीणनिजेहिं'ति रसरुधिरादिधातुसमताकारिभि 'दप्पणिज्जेहिं' दर्पणीयैर्बलकरैः 'मयणिज्जेहिंति मदनीयैर्मन्मथवर्द्धनैः 'विहणिजेहिं तिबृंहणीयैर्मापचयकारिभिः 'सव्विदियगायपल्हायणिज्जेहिं ति प्रतीतं, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेलचम्मसि'त्तितैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना क्रयतेततैलचर्म, तत्र संवाहिएत्तियोगः।
_ 'पडिपुन्नपाणिपायसुकुमालकोमलतलेहिंति प्रतिपूर्णानां पाणिपादानां सुकुमारकोमलानि अत्यन्तकोमलानि तलानि-अधोभागा येषांते तथातैः, 'छेएहिं तिछेकैः-अवसरज्ञैः, द्विसप्ततिकलापण्डितैरिति वृद्धाः, 'दक्खेहिति कार्याणामविलम्बितकारिभि पत्तद्वेहिं तिप्राप्ताथैलब्धोपदेशैरित्यर्थ 'कुसलेहि ति सम्बाधनाकर्मणि साधुभि 'मेहावीहिंति मेघाविभिःअपूर्वविज्ञानग्रहणशक्तिकैः "निउणसिप्पोवगएहिं ति निपुणानि-सूक्ष्माणि यानि शिल्पानिअङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैः।
'अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं तिअभ्यङ्गनमईनोद्वलनानां प्रतीतार्थानां करणे ये गुणाः-विशेषास्तुषुनिर्माता येतेतथा तैः । 'अहिसुहाए'त्ति अस्थ्नांसुखहेतुत्वादस्थिसुखा तया, एवं शेषाण्यपि, संवाहणाए'त्ति सम्बाधनया संवाहनया वा, विश्रामणयेत्यर्थ, 'अवगयखयपरिस्समेतिखेदो-दैन्यं खिद दैन्ये इति वचनात् परिश्रमः-व्यायामजनितशरीरास्वास्थ्यविशेषः, 'समत्तजालाउलाभिरामेत्ति समस्तः-सर्वो जालेन-विच्छत्तिच्छिद्रोपेतगृहावयवविशेषेणाकुलो व्याप्तोऽभिरामश्चरम्योयःसतथा, पाठान्तरेसमुक्तेन-मुक्ताफलयुतेन जालेनाऽऽकुलोऽभिरामश्चयःसतथा, 'विचित्तमणिरयणकुट्टिमतले त्ति कुट्टिमतलं-मणिभूमिका, 'सुहोदएहिंति सुभोदकैस्तीर्थोदकैः सुखोदकैर्वा-नात्युष्णरित्यर्थः।
"गंधोदएहिति श्रीखण्डादिरसमित्रैः 'पुष्फोदएहि ति पुष्परसमित्रैः 'सुद्धोदएहिति स्वाभाविकैरित्यर्थः, 'तत्थ कोउयसएहि तितत्रस्नानावसरे यानि कौतुकानां-रक्षादीनां शतानि तैः ‘पम्हलसुकुमालगंधकासाइलूहियंगे' पक्ष्मला-पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायी-कषायरक्तशाटिका तया लूक्षितं-विक्षितमङ्गं-शरीरं यस्य स तथा । 'अहयसुमहग्घदूसरयणसुसंवुए' अहतं-मलमूषिकादिभिरनुपदूषितं प्रत्यग्रमित्यर्थ सुमहार्धं च-बहुमूल्यं यत्ष्यरलं-प्रधानवस्त्रं तेन संवृतः-परिगतः तद्वा सुष्टुसंवृतं परिहितं येन स तथा, 'सुइमालावण्णगविलेवणे यत्ति शुचिनी-पवित्रे माला च-कुसुमदाम वर्णकविलेपनं च-मण्डनकारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150