Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१४६
औपपातिकउपाङ्गसूत्रम्-३२
उन्नतिं प्राप्यमाण इति 'मनोरहमालासहस्सेहिं विच्छिप्पमाणे एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैः विशेषेण स्पृश्यमान इत्यर्थ :'वयणमालासहस्सेहिं अभिथुव्वमाणे'त्ति व्यक्त।
___ कंतिसोभग्गगुणेहिं पत्थिजमाणे २ कान्त्यादिगुणैर्हेतुभूतैःप्रार्थ्यमानो-भर्तृतया स्वामितया वाजनेनाभिलष्यमाणः ‘मंजुमंजुणा घोसेण पडिपुच्छमाणे' मझुमक्षुना-अतिकोमलेन घोषेणस्वरेणप्रतिपृच्छन्-प्रश्नयन्प्रणमतः स्वरूपादिवाता पडिबुज्झमाणोतिपाठान्तरेप्रतिबुद्धयमानो जाग्रद्, अप्रचलायमान इत्यर्थः, 'अपडिबुज्झमाणेत्ति पाठान्तरं, तत्राप्रत्यूह्यमानः-अनपहियमाणमानस इत्यर्थः समइच्छमाणे'त्तिसमतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरेत्वेवं तंतीतलतालतुडियगीयवाइयरवेणं' व्यक्तमेव, किंविधेन रवेणेत्याह।
___ मधुरेण, अत एव ‘मनहरेणं' तथा 'जयसढुग्घोसविसएणं मझुमझुणा घोसेणंति जयेति शब्दस्याभिधानस्य उद्घोषः-उद्घोषणं विशदं स्पष्टं यत्र सतथा तेन, म मञ्जुना-कोमलेन घोषेण ध्वनिना 'अपडिबुझमाणे'त्ति प्राग्वत्, 'कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउकचच्चरआरामुजाणकाणणसभापवापदेसदेसभागे' कन्दराणि-दों गिरीणां विवरकुहराणि-गुहाः पर्वतान्तराणिवा गिरिवराः-प्रधानपर्वताःप्रासादाः-सप्तभूमिकादयः ऊर्ध्वधनभवनानि-उच्चाविरलगेहानिदेवकुलानि-प्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामाः-पुष्पजाति प्रधानाः वनषण्डाः उद्यानानि-पुष्पादिमदृक्षयुक्तानि काननानि-नगराद् दूरवर्तीनि सभा--आस्थायिकाः प्रपा-जलदानस्थानम् एतेषांये प्रदेशदेशरूपा भागास्ते तथा तान्, -
__ -तत्र प्रदेशा-लघुतरा भागा देशास्तु-महत्तराः, पडिसद्द (डिंसुआ)'सयसहस्ससंकुलं करेंति' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कुलान् कुर्वन् कूणिको निर्गच्छतीति सम्बन्धः, तथा 'हयहेसियहत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं महया कलकलरवेणं जनस्स महुरेण पूरयते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान् वेत्यनेन, 'सुगंधवरकुसुम-चुण्णउविद्धवासरेणुकविलं नभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च उव्विद्धः-ऊर्ध्व गतो यो वासरेणुः-वासकं रजः तेन यत्कपिलं तत्तथा 'नभंति नभ आकाशं कुर्वन्, 'कालागुरु- कुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत्, 'समंतओ खुभियचक्कवालं' सर्वतः क्षुभितानि चक्रवालानि-जनमण्डलानि यत्र निर्गमने तत्तथा तद्यथा भवतीत्येवं निर्गच्छतीत्येवं सम्बन्धः।
तथा 'पउरजणबालवुड्पमुइयतुरियपहावियविउलाउलबोलबहुलंन करेंते प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानांयोबोलः सबहुलोयत्रतत्तथा तदेवम्भूतंनभः कुर्वन्निति । अथाधिकृतवाचनाऽनुश्रीयते-'अदूरसामंते' अनिकटासन्ने उचिते देशे इत्यर्थः।
"ठवेइ'त्ति स्थिरीकरोति ‘अवहट्टत्तिअपहृत्य-परित्यज्य रायककुहाई तिनृपचिह्नानि 'उप्फेस'तिमुकुटं 'वालवीयणियं तिचामरं सचित्ताणंदव्वाणंविउसरणयाए'तिपुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणंदव्वाणं अविउसरणयाए'त्ति वस्त्राभरणाद्यचेतनद्रव्याणामत्यजनेन ।
'चक्खुफासे'त्तिभगवति घष्टिपाते 'हस्थिक्खंधविट्ठभणयाए'त्तिवाचनान्तरं, तत्र हस्तिलक्षणो यः स्कन्धः-पुद्गलसञ्चयस्तस्य या दिएम्भना-स्थापना सा तथा तया, 'तिक्खुत्तो'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150