Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 90
________________ मूल-३४ १४९ सर्वाक्ष- रामां सन्निपातः-अवतारो यस्यामस्ति सर्वे वाऽक्षरसन्निपाताः-संयोगाः सन्ति यस्यां सासर्वाक्षर-सन्निपातिका तया, 'सरस्सइए' वाण्या जोयणणीहारिणा' योजनातिक्रमिणास्वरेण –'अद्धमागहाए भासाए'त्ति रसोर्लसौमागध्या'मित्यादियन्मागधभाषालक्षणंतेनापरिपूर्णा प्राकृतभाषालक्षणबहुला अर्द्धमागधीत्युच्यते। मू. (३४-वर्तते) तेसिं सव्वेसिं आरियमनारियाणं अगिलाए धम्ममाइक्खइ, साऽवियणं अद्धमागहा भासा तेसिं सब्वेसिं आरियमनारियाणं अप्पणोसभासाए परिणामेणंपरिणमइ, तंजहा -अस्थि लोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे पुन्ने पावे आसवे संवरे वेयणा निजरा -अरिहंता चक्कयट्टीबलदेवा वासुदेवानरका नेरइयातिरिक्खजोणिआतिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिद्धी सिद्धा परिनिव्वाणं परिनिबुया -अस्थि पाणाइवाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे अस्थि कोहे माने माया लोभे जाव मिच्छादसणसल्ले। वृ.'आरियमनारियाणं तिआदिशोत्पन्नतदितरनराणाम् 'अप्पणो सभासाए परिणामेणं परिणमइत्ति आर्यादीनामात्मनस्तत्सम्बन्धिजीवस्य स्वभाषाया-निजभाषायाः सम्बन्धिना परिणामेन-स्वरूपेण परिणमति-वर्तते । याशं धर्मं कथयति तद्दर्शनार्थमाह-'तंजहे त्यादि, अस्थि लोए इत्यादि कल्लाणपावए' इत्येतदन्तं, सुगम, नवरं लोकः-पञ्चास्तिकायमयः अलोकः-केवलाकाशरूपः, अनयोश्चास्तित्वाभिधानं शून्यवादनिरासार्थ, तन्निरासोपपत्तिश्च ग्रन्थान्तरागम्या, एवं प्रायेणोत्तरत्रापि, 'अस्थि जीवा' अस्तीति क्रियावधनप्रतिरूपको निपातो बहुवनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम्, 'अस्थिअजीव'त्ति पुरुषाद्वैतादिवादनिषेधार्थम्, 'अस्थि बंधे अस्थि मोक्खे'त्ति बन्धः कर्मणा जीवस्य मोक्षः-सकलकर्मवियोगः तस्यैव, एतच द्वयं "संसरति बध्यते मुच्यतेच नानाश्रया प्रकृतिरेव, नात्मे" त्येवंविधसामयमतनिषेधार्थमिति।। 'अस्थि पुन्ने अस्थि पावे'त्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानं च सुखदुःखहेतुर्न पापमस्ता त्येवंकिधवादनिरासार्थमुक्तं जगद्वैचित्र्यनिबन्धनकेवलस्वभाववादनिरासार्थवा, अस्थि आसवेअस्थि संवरे' कर्मबन्धहेतुराश्रवः आश्रवनिरोधः संवरः, एतच बन्धमोक्षयोर्निष्कारण-त्वप्रतिषेधार्थं वीर्यप्राधान्यख्यापनार्थं वा, 'अस्थि वेयणा अस्थि निजरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा देशतः कर्मक्षयः। एतच्च 'नाभुक्तं क्षीयते कर्मे' त्येतत्प्रतिपादनार्थम्, अर्हदादिचतुष्कसत्ताभिधानं तु तभुवनातिशायित्वमश्रद्दधतां तच्छ्रद्धोत्पादनार्थं, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थं, तिर्यगाद्यस्तित्वप्रतिपादनं तु प्रत्यक्षप्रमाणस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन इति ये मन्यन्ते तन्मतनिषेधार्थ, मातापितृसत्ताभिधानं तु ये मन्यन्ते-योऽयं मातापितृव्यपदेशः स जनकत्वकृतो जनकत्वाच यूकाकृमिगण्डोलकादीनप्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितृव्यवहार इति, तन्मतनिरासार्थं, निरासश्च जनकत्वे समानेऽप्युपकारित्वकृतस्तद्वयपदेश इति, तथा ये मन्यन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150