Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१५५
मूलं-४४ जातमिति, 'महातवे महातपाः प्रशस्ततपाः बृहत्तपावा 'ओराले'त्ति भीमः कथम्? -अतिकष्टं तपः कुर्वन् पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह-'ओराले'त्तिउदारः-प्रधानः 'घोर त्ति घोरो-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्ष घोरमाहुः, 'घोरगुणो' घोराः अन्यैर्दुरनुचरा गुणाः-मूलगुणादयो यस्य स तथा, 'घोरतवस्सी' घोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वाद्य ब्रह्मचर्यंतत्र वस्तुं शीलं यस्य स तथा,___-'उच्छूढसरीरे' उच्छूढम्-उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा, 'संखित्तविउलतेयलेस्से' संक्षिप्ता-शरीरान्तीनाविपुलाचविस्तीर्णा अनेकयोजन-प्रमाणक्षेत्राऽऽश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्याः विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'ऊहूंजाणु शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कुटुकासनः सन्नपदिश्यते, ऊर्बे जानुनी यस्य सऊर्ध्वजानुः, 'अहोसिरे' अधोमुको नोय तिर्यग्वा निक्षिप्तदृष्टिरिति भावः, 'झाणकोट्टोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकम- नुप्रविश्येन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः ।
मू. (४-वर्तते) तए णं से भगवं गोअमे जायसड्ढे जायसंसए जायकोऊहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले संजायसड्ढे संजायसंसए संजायकोऊहल्लेसमुप्पन्नसडे समुप्पन्नसंसए समुप्पन्नकोऊहल्ले
-उठाए उठेइ उठाए उठित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति नमंसति वंदित्ता नमंसित्ता नचासण्णे नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विनएणं पंजलिउडे पञ्जुवासमाणे एवं वयासी
वृ. “जायसट्टे' जाता-प्रवृतता श्रद्धा-इच्छाऽस्येति जातश्रद्धः, कब ? -वक्ष्यमाणानां पदार्थानां तत्वपरिज्ञाने, 'जायसंसए' जातः संशयोऽस्येतिजातसंशयः, संशयस्त्वनिर्धारितार्थः ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं, स त्वेवं तस्य भगवतो जातः, यथा श्रीमन्महावीरवरर्द्धमानस्वामिना प्रथमाङ्गप्रथमश्रुतस्कन्धप्रमाध्ययने प्रथमोद्देशके आत्मन उपपात उक्तः ।
सकिमसत एवात्मनः उत सतः परिणामान्तरापत्तिरूपः, 'जायकोउहल्ले जातं कुतूहलंकौतुकंयस्यसतथा, कीशमुपपातं भगवान्वक्ष्यतीत्येवंरूपजातश्रवणीत्सुक्यइत्यर्थ, 'उप्पन्नसङ्के प्रागभूता उत्पन्ना श्रद्धा यस्य स उत्पन्नश्रद्धः, अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽर्थभेदा नकश्चिद्, अथ किमर्थंतप्रयोगः?, उच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि-उत्पन्नश्रद्ध-त्वाजातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, 'संजायसड्डे' इत्यादौ च संशब्दः प्रकर्षादिवचनः, अपरस्त्वाह-जाता श्रद्धा प्रष्टुं यस्य सजातश्रद्धः, कथं जातश्रद्धो?,यस्माजातसंशयः, कधं संशयः अजनि?, यस्मात प्राक्कुतूहलं-किंविधो नामायमुपपातो भविष्यतीत्येवंरूपमित्येष तावदवग्रहः, एवमुत्पन्नस्जातसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति उपोद्घातग्रन्थो व्याख्यातः ।
मू. (४४-वर्तत) जीवेणंभंते! असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते पावकम्मं अण्हाति? हंता अण्हाति १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150