SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ १४६ औपपातिकउपाङ्गसूत्रम्-३२ उन्नतिं प्राप्यमाण इति 'मनोरहमालासहस्सेहिं विच्छिप्पमाणे एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैः विशेषेण स्पृश्यमान इत्यर्थ :'वयणमालासहस्सेहिं अभिथुव्वमाणे'त्ति व्यक्त। ___ कंतिसोभग्गगुणेहिं पत्थिजमाणे २ कान्त्यादिगुणैर्हेतुभूतैःप्रार्थ्यमानो-भर्तृतया स्वामितया वाजनेनाभिलष्यमाणः ‘मंजुमंजुणा घोसेण पडिपुच्छमाणे' मझुमक्षुना-अतिकोमलेन घोषेणस्वरेणप्रतिपृच्छन्-प्रश्नयन्प्रणमतः स्वरूपादिवाता पडिबुज्झमाणोतिपाठान्तरेप्रतिबुद्धयमानो जाग्रद्, अप्रचलायमान इत्यर्थः, 'अपडिबुज्झमाणेत्ति पाठान्तरं, तत्राप्रत्यूह्यमानः-अनपहियमाणमानस इत्यर्थः समइच्छमाणे'त्तिसमतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरेत्वेवं तंतीतलतालतुडियगीयवाइयरवेणं' व्यक्तमेव, किंविधेन रवेणेत्याह। ___ मधुरेण, अत एव ‘मनहरेणं' तथा 'जयसढुग्घोसविसएणं मझुमझुणा घोसेणंति जयेति शब्दस्याभिधानस्य उद्घोषः-उद्घोषणं विशदं स्पष्टं यत्र सतथा तेन, म मञ्जुना-कोमलेन घोषेण ध्वनिना 'अपडिबुझमाणे'त्ति प्राग्वत्, 'कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउकचच्चरआरामुजाणकाणणसभापवापदेसदेसभागे' कन्दराणि-दों गिरीणां विवरकुहराणि-गुहाः पर्वतान्तराणिवा गिरिवराः-प्रधानपर्वताःप्रासादाः-सप्तभूमिकादयः ऊर्ध्वधनभवनानि-उच्चाविरलगेहानिदेवकुलानि-प्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामाः-पुष्पजाति प्रधानाः वनषण्डाः उद्यानानि-पुष्पादिमदृक्षयुक्तानि काननानि-नगराद् दूरवर्तीनि सभा--आस्थायिकाः प्रपा-जलदानस्थानम् एतेषांये प्रदेशदेशरूपा भागास्ते तथा तान्, - __ -तत्र प्रदेशा-लघुतरा भागा देशास्तु-महत्तराः, पडिसद्द (डिंसुआ)'सयसहस्ससंकुलं करेंति' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कुलान् कुर्वन् कूणिको निर्गच्छतीति सम्बन्धः, तथा 'हयहेसियहत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं महया कलकलरवेणं जनस्स महुरेण पूरयते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान् वेत्यनेन, 'सुगंधवरकुसुम-चुण्णउविद्धवासरेणुकविलं नभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च उव्विद्धः-ऊर्ध्व गतो यो वासरेणुः-वासकं रजः तेन यत्कपिलं तत्तथा 'नभंति नभ आकाशं कुर्वन्, 'कालागुरु- कुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत्, 'समंतओ खुभियचक्कवालं' सर्वतः क्षुभितानि चक्रवालानि-जनमण्डलानि यत्र निर्गमने तत्तथा तद्यथा भवतीत्येवं निर्गच्छतीत्येवं सम्बन्धः। तथा 'पउरजणबालवुड्पमुइयतुरियपहावियविउलाउलबोलबहुलंन करेंते प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानांयोबोलः सबहुलोयत्रतत्तथा तदेवम्भूतंनभः कुर्वन्निति । अथाधिकृतवाचनाऽनुश्रीयते-'अदूरसामंते' अनिकटासन्ने उचिते देशे इत्यर्थः। "ठवेइ'त्ति स्थिरीकरोति ‘अवहट्टत्तिअपहृत्य-परित्यज्य रायककुहाई तिनृपचिह्नानि 'उप्फेस'तिमुकुटं 'वालवीयणियं तिचामरं सचित्ताणंदव्वाणंविउसरणयाए'तिपुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणंदव्वाणं अविउसरणयाए'त्ति वस्त्राभरणाद्यचेतनद्रव्याणामत्यजनेन । 'चक्खुफासे'त्तिभगवति घष्टिपाते 'हस्थिक्खंधविट्ठभणयाए'त्तिवाचनान्तरं, तत्र हस्तिलक्षणो यः स्कन्धः-पुद्गलसञ्चयस्तस्य या दिएम्भना-स्थापना सा तथा तया, 'तिक्खुत्तो'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy