Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१३८
औपपातिकउपाङ्गसूत्रम्-३१
इति योगः, इह च चामरशब्दस्य नपुंसकलिङ्गत्वेऽपि स्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वा न दुष्टः, प्रवरं यद्गिरिकुहरं - पर्वतनिकुञ्जस्तत्र यद्विचरणं-सञ्चरणं तेन सुमुदिता - अतिहृष्टा निरुपहताश्च - उपघातरहिता ये चमराः - आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं देहस्य पश्चिम भागस्तत्र या सञ्जाता-उत्पन्नाः सङ्गत्ताश्च - अनवद्यास्तास्तथाताभि, 'अमलियसियकमलविमलुज्जलियरययगिरिसिहरविमलससिकिरणसरिसकलधोयनिम्मलाहिं' अमलितम् - अमर्दितं यत्सितकमलंपुण्डरीकं तथा विमलं- निर्मलं उज्वलितम् - उद्दीप्तं यद्रजतगिरिशिखरं - वैताढ्यगिरिकूटं तथा विमला ये शशिकिरणास्तत्सश्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्च - रूप्यवदुज्वला इति समासोऽस्ताभि ।
'पवणाहयचवलललियतरंगहत्थनच्च॑तवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं' पवनाहताः - वायुप्रेरिताश्चपलाः - तरला ललिता - मनोहरास्तरङ्गहस्ताः - प्रतनुकल्लोलपाणयस्तैः नृत्यन्निव नृत्यन् यः स तथा वीचयो - महाकल्लोलास्तैः प्रसृतश्च - विस्तारमुपगतः स चासौ क्षीरोदकश्च - क्षीराकारजलः स चासौ प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूरः - प्रकृष्ट प्रवाहः स तथा तद्वचञ्चला यास्तास्तथा ताभिः, 'मानससरपरिसरपरिचियावासविसयवेसाहिं' इह हंसवधूमिरिव कलित इत्यनेन सम्बन्धः, मानसाभिधानसरसः परिसरे प्रान्ते परिचितः - पुनः पुनः कृत आवासो - निवासो यकाभिस्तास्तथा ताश्च ता विशदवेषाश्च - धवलाकारा इति कर्मधारयोऽतस्ताभि, 'कणगगिरिसिहरसंसियाहिं' कनकगिरेः - मेरोरन्यस्य वा यच्छिखरं तत्संसृता यास्तास्तथा ताभि
'उवइयउप्पइयतुरियचवलजइणसिग्घवेगाहिं' अवपतितोत्पतितयोः - निपतनोत्पतनयोस्त्वरितचपलः - अत्यन्तचपलः जविनः - शीघ्रो वेगवतां मध्येऽतिशीघ्रो वेगो - गतिविशेष यासां तास्तथा ताभि, 'हंसवधूयाहिं चैव कलिए हंसिकाभिरिव युक्तः, इह च हंसिकाभिश्चामराणा धवलत्वेन दण्डोपरिवर्तित्वेन चपलत्वेन च साधर्म्यमिति, तथा 'नानामणिकणगरयणविमलमहरिहतवणिजुज्ञ्जलविचित्तदंडाहिं' नानामणिकनकरत्नानां सम्बन्धिनो निर्मला महरिहत्तिमहार्घास्तपनीयोज्ज्वलाः – रक्तवर्णसुवर्णदीप्राः विचित्रा - विविधचित्रा दण्डा यासां तास्तथा, 'चिल्लियाहिं' दीप्यमानाभिर्लीनाभिर्वा 'नरवइसिरिसमुदयपगासणकरीहिं' ति व्यक्तं, 'वरपट्टगुग्गयाहिं' प्रधानपत्तनसमुद्भवाभि, वरपत्तने हि वराः शिल्पिनो भवन्तीति तत्परिकर्मिताः प्रधाना भवन्तीति वरपत्तनोद्गताभिरित्युक्तम् ।
अथवा वरपट्टनात्-प्रधानाच्छादनकोशकादुद्गता - निष्काशिता यास्तास्ताभिः, 'समिद्धरायकुलसेवियाहिं'ति व्यक्तं, 'कालागुरुपवरकुंदुरुक्कतुरुक्कवरवण्णवासगंधुद्ध्याभिरामाहिं' कालागुरु - कृष्णागुरु प्रवरकुन्दुरुक्क - सच्चीडा तुरुक्क सिल्हकं वरवर्ण- प्रधानचन्दनं एतैर्यो वासो - वासनं तस्माद्यो गन्धः - सौरभ्यम् उद्धूत-उद्भूतस्तेनाभिरामा - रम्या यास्तास्तथा ताभि, 'सललियाहिं' ति व्यक्तम्, 'उभओ पासंपि त्ति उभयोरपि पार्श्वयोरित्यर्थ, 'उक्खिप्पमाणाहिं चामराहिं' ति व्यक्तं, कलित इति वर्तते, 'सुहसीयलवायवीइयंगे' ति समुत्क्षिप्यमाणचामराणामेव यः शुभः शीतलश्च वातस्तेन वीजितमङ्गं यस्य स तथेति ।
इतोऽधिकृतवाचना - 'मंगलजयसद्दकयालोए' मङ्गलाय जयशब्दः कृतो जनेनालोकेदर्शने यस्य स तथा, 'अनेगगणनायगे' त्यादि पूर्ववत् ।
मू. (३१ - वर्तते) तए णं तस्स कूणियस्स रन्नो भंभसारपुत्तस्स आभिसिक्क हत्यिरयणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150