Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 82
________________ मूलं-३१ १४१ गललातानि कण्ठेनाऽऽत्तानि वरभूषणानि येषांतेतथा तेषां, मुहभंडगओचूलगथासगमिलाणचमरीगंडपरिमंडियकडीणं' मुखभाण्डकंमुखाभरणम् अवचूलाः-प्रलम्बमानगुच्छाःस्थासकाश्चआदर्शकाकारयेषांतेतथा मिलाणत्ति पर्याणैरथवाअम्लानैः-अमलिनैः चमरीगण्ड:-चामरदण्डैः परिमण्डिता कटिर्येषांतेतथा ततः कर्मधारयोऽतस्तेषां, किंकररतरुणपरिग्गहियाणं ति व्यक्तम् अथाधिकृतवाचनाऽनुश्रीयते-'थासगअहिलाणचामरगण्डपरिमंडियकडीण' थासगअहिलाणत्तिइह मत्वर्थीयलोपात् स्थासकाहिलाणवतामित्यर्थ, अहिलाणंच-मुखसंयमनं, शेषप्राग्वत्, 'ईसिदंताणं ति ईषत्-मनाग्दन्तानाम् 'ईसिउच्छंगविसालधवलदंताणं उत्सङ्गइवउत्सङ्गः-पृष्ठदेश ईषदुत्सङ्गे विशाला ते ये यौवनारम्भवर्तित्वात्ते तथा तेच धवलदन्ताश्चेति समासोऽतस्तेषां । __ 'कंचणकोसीपविट्ठदंताणं' काञ्चनकोशी-सुवर्णखोला, 'वरपुरिसारोहगसुसंपउत्ताणं'ति क्वचिश्यते, तत्रारोहकाः हस्तिपकाः, 'सझयाणं सपडागाण'मित्यत्र ध्वजो-गरुडादियुक्तस्तदितरा तु पताका, ‘सनंदिघोसाणं'ति नन्दी-द्वादशतूर्यनिर्घोषः, तद्यथा॥१॥ भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७। काहल ८ तलिमा ९ वंसो १० संखे ११ पणवो १२ य बारसमो।' 'सखिखिणीजालपरिक्खिताणं' सह किङ्किणीकाभि-क्षद्रघण्टिकाभि यज्जालं-जालक तदाभरणविशेषस्तेन परिक्षिप्ता-परिकरिता येते तथा तेषां, 'हेमवयचित्ततेणिसकणगणिज्जुत्तदारुयाणं' हैमवतानि-हिमवद्गिरिसम्भवानि चित्राणि-विविधानितैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-सुवर्णखचितानि दाकाणि-काष्ठानि येषुते तथा तेषां, 'कालायससुकयनेमिजंतकम्माणं तिकालायसेन-लोहविशेषेणसुष्ठुकृतंनेमेः-चक्रगण्डधारायाः यत्र कर्म-बन्धनक्रिया येषांते तथा तेषां, सुसिलिट्ठवत्तमंडलधुराणं तिसुष्टुश्लिष्टा वृत्तमण्डलाअत्यर्थं मण्डला धूर्येषां ते तथा तेषां। कवचिदृश्यते 'सुसंविद्धचक्कमंडलधुराणं' सुसंविधानि-कृतसद्वेधानि चक्रणि-रथाङ्गानि येषां मण्डलाच-वृत्ताधूयेषां ते तथा तेषाम्, 'आइण्णवरतुरगसुसंपउत्ताणं' आकीर्णा-जात्याः, 'कुसलनरच्छेयसारहिसुसंपग्गहिआणं' कुशलनरा-विज्ञपुरुषास्ते च ते छेकसारथयश्चआशुकारिप्राजितार इति समासः, तैः सुष्ठु संप्रगृहीता येते तथा तेषां, कचित्पठयते 'हेमजालगवक्खजालखिखिणिघंटाजालपरिक्खित्ताणं' हेमजालं-सौवर्ण आभरणविशेषः गवाक्ष जालंजालकोपेता गवाक्षाः किङ्किण्यः क्षुद्रघण्टिकाः घण्टास्तु-बृहदघण्टास्तासांयज्जालं-समूहस्तत्तथा, हेमजालादिभि परिक्षिप्ताः-परिकरिता येते तथा तेषां । 'बत्तीसतोणपरिमंडियाणं'ति द्वात्रिंशता तोणैः-भस्त्रकैः परिमण्डिता येते तथा तेषां, क्वचित्पठयते 'बत्तीसतोरणपरिमंडियाणंति द्वात्रिंशद्विभागं यत्तोरणं तेन परिमण्डितानां, "सकंकडवडेंसगाणं'सह कङ्कटैः कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा ये ते तथा तेषां, 'सचावसरपहरणावरणभरियजुद्धसञ्जाणं' सह चापशरैः-धनुर्बाणैर्यानिप्रहरणानि खगादीन्यावरणानि च–स्फुरकादीनि तेषां भरिता-भृता अत एव युद्धसज्जाः-रणप्रह्ला येते तथा तेषाम्, 'असिसत्तिकुंततोमरसूललउलभिंडिमालधणुपाणिसचं अस्यादीनि प्रसिद्धानिनवरं-शक्तिस्त्रिशूलं शूलं वेकशूलं लउलोत्ति-लकुटः भिण्डिमालं-रूढिगम्यं, ततः अस्यादीनि पाणौ-हस्ते यस्य तत्तथा तच्च तत्सजं च–प्रगुणं युद्धस्येति समासः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150