________________
मूलं-३१
१४१
गललातानि कण्ठेनाऽऽत्तानि वरभूषणानि येषांतेतथा तेषां, मुहभंडगओचूलगथासगमिलाणचमरीगंडपरिमंडियकडीणं' मुखभाण्डकंमुखाभरणम् अवचूलाः-प्रलम्बमानगुच्छाःस्थासकाश्चआदर्शकाकारयेषांतेतथा मिलाणत्ति पर्याणैरथवाअम्लानैः-अमलिनैः चमरीगण्ड:-चामरदण्डैः परिमण्डिता कटिर्येषांतेतथा ततः कर्मधारयोऽतस्तेषां, किंकररतरुणपरिग्गहियाणं ति व्यक्तम्
अथाधिकृतवाचनाऽनुश्रीयते-'थासगअहिलाणचामरगण्डपरिमंडियकडीण' थासगअहिलाणत्तिइह मत्वर्थीयलोपात् स्थासकाहिलाणवतामित्यर्थ, अहिलाणंच-मुखसंयमनं, शेषप्राग्वत्, 'ईसिदंताणं ति ईषत्-मनाग्दन्तानाम् 'ईसिउच्छंगविसालधवलदंताणं उत्सङ्गइवउत्सङ्गः-पृष्ठदेश ईषदुत्सङ्गे विशाला ते ये यौवनारम्भवर्तित्वात्ते तथा तेच धवलदन्ताश्चेति समासोऽतस्तेषां ।
__ 'कंचणकोसीपविट्ठदंताणं' काञ्चनकोशी-सुवर्णखोला, 'वरपुरिसारोहगसुसंपउत्ताणं'ति क्वचिश्यते, तत्रारोहकाः हस्तिपकाः, 'सझयाणं सपडागाण'मित्यत्र ध्वजो-गरुडादियुक्तस्तदितरा तु पताका, ‘सनंदिघोसाणं'ति नन्दी-द्वादशतूर्यनिर्घोषः, तद्यथा॥१॥ भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७।
काहल ८ तलिमा ९ वंसो १० संखे ११ पणवो १२ य बारसमो।' 'सखिखिणीजालपरिक्खिताणं' सह किङ्किणीकाभि-क्षद्रघण्टिकाभि यज्जालं-जालक तदाभरणविशेषस्तेन परिक्षिप्ता-परिकरिता येते तथा तेषां, 'हेमवयचित्ततेणिसकणगणिज्जुत्तदारुयाणं' हैमवतानि-हिमवद्गिरिसम्भवानि चित्राणि-विविधानितैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-सुवर्णखचितानि दाकाणि-काष्ठानि येषुते तथा तेषां, 'कालायससुकयनेमिजंतकम्माणं तिकालायसेन-लोहविशेषेणसुष्ठुकृतंनेमेः-चक्रगण्डधारायाः यत्र कर्म-बन्धनक्रिया येषांते तथा तेषां, सुसिलिट्ठवत्तमंडलधुराणं तिसुष्टुश्लिष्टा वृत्तमण्डलाअत्यर्थं मण्डला धूर्येषां ते तथा तेषां।
कवचिदृश्यते 'सुसंविद्धचक्कमंडलधुराणं' सुसंविधानि-कृतसद्वेधानि चक्रणि-रथाङ्गानि येषां मण्डलाच-वृत्ताधूयेषां ते तथा तेषाम्, 'आइण्णवरतुरगसुसंपउत्ताणं' आकीर्णा-जात्याः, 'कुसलनरच्छेयसारहिसुसंपग्गहिआणं' कुशलनरा-विज्ञपुरुषास्ते च ते छेकसारथयश्चआशुकारिप्राजितार इति समासः, तैः सुष्ठु संप्रगृहीता येते तथा तेषां, कचित्पठयते 'हेमजालगवक्खजालखिखिणिघंटाजालपरिक्खित्ताणं' हेमजालं-सौवर्ण आभरणविशेषः गवाक्ष जालंजालकोपेता गवाक्षाः किङ्किण्यः क्षुद्रघण्टिकाः घण्टास्तु-बृहदघण्टास्तासांयज्जालं-समूहस्तत्तथा, हेमजालादिभि परिक्षिप्ताः-परिकरिता येते तथा तेषां ।
'बत्तीसतोणपरिमंडियाणं'ति द्वात्रिंशता तोणैः-भस्त्रकैः परिमण्डिता येते तथा तेषां, क्वचित्पठयते 'बत्तीसतोरणपरिमंडियाणंति द्वात्रिंशद्विभागं यत्तोरणं तेन परिमण्डितानां, "सकंकडवडेंसगाणं'सह कङ्कटैः कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा ये ते तथा तेषां, 'सचावसरपहरणावरणभरियजुद्धसञ्जाणं' सह चापशरैः-धनुर्बाणैर्यानिप्रहरणानि खगादीन्यावरणानि च–स्फुरकादीनि तेषां भरिता-भृता अत एव युद्धसज्जाः-रणप्रह्ला येते तथा तेषाम्, 'असिसत्तिकुंततोमरसूललउलभिंडिमालधणुपाणिसचं अस्यादीनि प्रसिद्धानिनवरं-शक्तिस्त्रिशूलं शूलं वेकशूलं लउलोत्ति-लकुटः भिण्डिमालं-रूढिगम्यं, ततः अस्यादीनि पाणौ-हस्ते यस्य तत्तथा तच्च तत्सजं च–प्रगुणं युद्धस्येति समासः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org