________________
१४२
औपपातिकउपाङ्गसूत्रम्-३१ 'पायत्ताणीय'तिपादातानीकं-पदातिकटकंवाचनान्तरे पुनः ‘सन्नद्धबद्धवम्मियकवयाणं' तत्र बद्धं कशाबन्धनात्वर्मितं च-वर्मीकृतंतनुत्राणहेतोः शरीरे नियोजनात् कवचम्-अङ्गरक्षको यैस्ते तथा, सन्नद्धाश्च ते सन्नहन्या बन्धनाद्बद्धवर्मितकवचाश्चेति समासस्तेषाम्, 'उप्पीलियसरासणवट्टियाणं उत्पीडिता-आरोपितप्रत्यञ्चा शरासनपट्टिका- धनुर्यष्टिय, अथवा-उत्पीडिता बाहौ बद्धा शरासनपट्टिका-धनुर्दण्डाकर्षणे बाहुरक्षार्थं चर्मपट्टो यैस्ते तथा तेषां, 'पिनद्धगेवेजविमलवरबद्धचिंधपट्टाण'पिनद्धं-परिहितं ग्रैवेयक-ग्रीवाभरणं यैस्ते तथा।
विमलो वरे बद्धो शिरसीति गम्यं चिह्नपट्टो-वीरतासूचको नेत्रादिवस्त्रमयः पट्टो यैस्ते तथा, ततः कर्मधारयोऽतस्तेषां, 'गहियाउहप्पहरणाणं गृहीतान्यायुधानि-खणादीनि प्रहरणाय यैस्ते तथा तेषाम्, अथवा-आयुधान्यक्षेप्याणि प्रहरणानि तु क्षेप्याणीति विशेषः ।
मू (३१-वर्तते) तए णं से कूणिए राया हारोत्थयसुकयरइयवच्छे कुंडलउज्जोविआणणे मउडदित्तसिरए नरसीहे नरवई नरिदे नरवसहे मनुअरायवसभकप्पे अब्भहिअरायतेअलच्छीए दिष्पमाणेहत्थिक्खंधवरगएसकोरंटमल्लदामेणंछत्तेणं धरिजमाणेणंसेअवरचामराहिं उद्धव्वमाणीहिं २ वेसमणो चेव।
नरवईअमरवईसन्निभाए इडीएपहियकित्ती हयगयरहपवरजोहकलियाए चाउरंगिणीए सेनाएसमणुगम्ममाणमग्गेजेणेव पुन्नभद्दे चेइएतेणेव पहारित्यगमणाए, तएणंतस्स कूणिअस्स रण्णो भंभसारपुत्तस्स पुरओ महंआसा आसघरा उभओ पासिं नागा नागधरा पिट्टओरहसंगेलि
वृ.अथाधिकृतवाचनाऽनुश्रीयतें-'तएणंसे कूणिए राया' इत्यादिमहंआसा' इत्यतदन्तं सुगमव्याख्यातप्रायंच, नवरं पहारेत्थगमणाए'त्ति सम्बन्धः, नरसीहेशूरत्वात् नरवई स्वामित्वात् नरिदे परमैश्वर्ययोगात् नरवसभे अङ्गीकृतकार्यभरनिर्वाहकत्वात् 'मणुयरायवसहकप्पे' मनुजराजानां-नृपतीनां वृषभानायकाश्चक्रवर्तिन इत्यरथः, तत्कल्पः-तत्सन्निभ उत्तरभरतार्द्धस्यापि साधने प्रवृत्तत्वात्, एवंविधश्च 'वेसमणे चेद' यक्षराज इव, तथा 'नरवईअमरवईसन्निभाए इडीए प्रहियकित्ती नरपतिरसौ केवलमभरपतिसन्निभया ऋद्धयाप्रथितकीर्ति-विश्रुतयशा इति, 'जेणेव पुन्नभद्दे'त्ति यस्यामेव दिशि पूर्मभद्रं चैत्यं 'तेणेव त्ति तस्यामेव दिशि ‘पहारित्य'त्ति प्रधारितवान्-विकल्पितवान्प्रवृत्त इत्यर्थः, 'गमणाए'त्तिगमनाय गमनार्थमिति।।
'महंआस'त्ति महाश्वा-बृहत्तुरङ्गाः 'आसधर'त्ति अश्वधारकपुरुषाः 'आसवर'त्ति पाठान्तरं, तत्र किम्भूता अश्वा इत्याह-'अश्ववराः' अश्वानांमध्ये प्रधानाः 'नाग'ति हस्तिनः 'नागधर'त्ति हस्तिधारकपुरुषाः पाठन्तरं तथैव, 'रहसंगेल्लित्ति रथसमुदायः ।
मू. (३१-वर्तते) तएणं से कूणिए राया मंभसारपुत्ते अभुग्गयभिंगारे पग्गहियतालियंटे उच्छियसेअच्छत्ते पवीइअवालवीयणीए सब्बिड्डीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविधूसाए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडिअसहसणिणाएं महया इष्टीए महया जुत्तीए महया बलेणं महया समुदएणं महया वरतुडिअजमगसमगप्पवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुखमुरवमुअंगदुंदुभि निग्घोसणाइयरवेणं चंपाए नयरीए मझमझेणं निगच्छइ ॥
वृ. 'तए णं से कूणिए' इत्यादि सुगम, नवरम् अस्य निर्गच्छतीत्यनेन सम्बन्धः, तथा 'अब्भुग्गयभिंगारे'त्ति अभ्युद्गतः-अभिमुखमुद्गत-उत्पाटितो भृङ्गारो यस्य स तथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org