________________
मूलं - ३१
'पग्गहियतालियंटे' प्रगृहीतं तालवृन्तं यं प्रति स तथा, 'उच्छियसेयच्छत्ते' उच्छ्रितश्वेतच्छत्रः, 'पवीइयवालवीयणीए' प्रवीजिता वालव्यजनिका यस्य स तथा, 'सव्विडीए' त्ति समस्तयाऽSभरणादिरूपया लक्ष्मया, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, नवरं 'जुत्तीए' त्ति संयोगेन परस्परोचितपदार्थानां 'बलेणे' ति सैन्येन ।
१४३
'समुदएणं'ति परिवारादिसमुदायेन 'आदरेणं' ति प्रयत्नेन 'विभूईए' त्ति विच्छर्द्दन 'विभूसाए 'त्ति उचितनेपथ्यादिकरणेन 'संभमेणं'ति भक्तिकृतौत्सुक्येन, कवचिदिदं पदचतुष्कमधिकं श्यते- 'पगईहिं' ति कुम्भकारादिश्रेणिभिः 'नायगेहिं' ति नगरकटकादिप्रधानैः 'तालायरेहिं'ति तालादानेन प्रक्षेकारिभि दण्डपाशिकैर्वा 'सव्वोरोहेहिं' ति सर्वावरोधैःसमस्तान्तः पुरैः 'सव्वपुप्फगंध (वास) मल्लालंकारेणं ति पुष्पाणि - अग्रथितानि वासाः प्रतीताः माल्यानि तु ग्रथितानि एतान्येवालङ्कारो मुकुटादिर्वा, समासश्च समाहारद्वन्द्वः, कवचिश्यते 'सव्यपुप्फ-वत्यगंध मल्लालंकारविभूसाए'त्ति, व्यक्तंच, 'सव्वतुडियसद्दसण्णिनाएणं ति सर्वत्र्याणां यः शब्दो - ध्वनिर्यश्च सङ्गतो निनादः - प्रतिशब्दः स तथा तेन, पूर्वोक्तानामृद्धयादिपदार्थानां सर्वत्वे सत्यपि महत्वं न स्यादपीत्यत आह
'महया इटीए' इत्यादि महद्धर्या, युक्त इति गम्यम्, एवमन्यान्यपि पदानि 'महया वरतुरियजमगसमगपवाइएणं'ति महता - बृहता वरतूर्याणां यमकसमकं - युगपत यत्प्रवादितं - ध्वनितं तत्तथा तेन, 'संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिनिग्घोस- नाइयरवेणं' ति सङ्घः - प्रतीतः पणवस्तु - भाण्डपडही लघुपटह इत्यन्ये, पटहस्त्वेतद्विपरीतः, भेरी - महाकाहला झल्लरी-वलयाकारा उभयतो बद्धा खरमुही-काहला हुडुक्का-प्रतीता मुरजो - महामर्दलो मृदङ्गोमर्दलः दुन्दुभी - महाढक्क एषां यो निर्घोषः - नादितरूपो रवः स तथा तेन, तत्र निर्घोषो - महाध्वनिनादितं तु शब्दानुसारी नाद इति ॥
मू. (३२) तरणं कूणिअस्स रन्नो चंपानगरिं मज्झमज्झेणं निग्गच्छमाणस्स बहवे अत्थत्थिया कामत्थिआ भोगत्थिया किब्बिसिआ करोडिआ लाभत्थिया कारवाहिया संखिआ चक्कया णंगलिया मुहमंगलिआ वद्धमामा पुरसमामवा खंडियगणा ।
ताहिं इठाहिं कंताहिं पिआहिं मणुण्णाहिं मणामाहिं मनोभिरामाहिं हिययगमणिज्जाहिं वग्गूहिं जयविजयमंगलसएहिं अनवरयं अभिनंदता य अभिधुणंता य एवं वयासी -जय २ नंदा जय २ भद्दा ! भद्दं ते अजियं जिणाहि जिअं पालेहि जिअमज्झे वसाहि ।
बृ. 'अत्थत्थिया' द्रव्यार्थिनः 'कामत्थिया' मनोज्ञशब्दरूपार्थिनः 'भोगत्थिया' मनोज्ञगन्धरसस्पर्शार्थिनः 'लाभत्थिया' भोजनमात्रादिप्राप्तयर्थिनः 'किब्बिसिया' किल्बिषिकाः परविदूषकत्वेन पापव्यवहारिणो भाण्डादय: 'कारोडिकाः' कापालिकाः ताम्बूलस्थगिकावाहका वा 'कारवाहिया' करपीडिता नृपाभाव्यवाहिनो वा 'संखिया' शाङ्खकाः चन्दनगर्भशङ्खहस्ता माङ्गल्यकारिणः शङ्खवादका वा 'चक्किया' चाक्रिकाश्चक्रप्रहरणाः कुम्भकारतैलिकादयो वा
'नंगलिया ' गलावलम्बत सुवर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषमस्ति ते मुखमाङ्गलिकाः- चाटुकारिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' पूष्य- मानवा मागधा: 'खंडिअगणा' छात्रसमुदायाः 'ताहिं'ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षित - त्वमेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org