________________
औपपातिकउपाङ्गसूत्रम्-३२
'इष्ठाहिं' इष्यन्ते स्म इतीष्टा- वाञ्छितास्ताभि, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्त आह- 'कंताहिं' कमनीयशब्दाभि 'पियाहिं' ति प्रियार्थिभिः 'मणुष्णाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञाः, भावतः सुन्दरा इत्यर्थस्ताभि 'मणामाहिं' मनसा अम्यन्ते - गम्यन्ते पुनः पुनर्या सुन्दरत्वातिशयात्ता मनोऽमाः 'मणोभिरामाहिं' ति तत्र मनोऽभिविधिना बहुकालं यावत् रमयन्तीति मनोऽभिराम अतस्ताभि, वाचनान्तराधीतमथ प्रायो वाग्विशेषणकदम्बकम् 'उरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं' कल्याणाभि-शुभार्थप्राप्ति सूचिकाभि: 'सिवाहिं' उपद्रवरहिताभि शब्दार्थदूषणरहिताभिरित्यर्थः ।
'घन्नाहिं' धन्याभि - धनम्भिकाभि 'मंगल्लाहिं' मङ्गले- अनर्थप्रतिघाते साध्वीभि 'सस्सिरीयाहिं' सश्रीकाभि शोभायु क्ताभि 'हिययगमणिजाहिं' सहृदयगमनीयाभि, सुबोधामिरित्यर्थः, 'हिययपल्हायणिजाहिं' हृदयप्रह्लादनीयाभि हृदयगत कोपशोकग्रन्थिविलयनकरीभिरित्यर्थः, 'मियमहुरगंभीरगाहिगाहिं' मिताः परिमिताक्षराः मधुराः - कोमलशब्दाः गम्भीरा - महाध्वनयः दुरवधार्यमप्यर्थं श्रोतॄन् ग्राहयन्ति यास्ता ग्राहिकाः, ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभि, 'अट्टसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सइ बहुफलत्वमर्थतः सइयाओ अठ्ठसइयाओ ताहिं 'अपुनरुक्ताभि' रिति व्यक्तं, 'वग्गूहिं' ति वाग्भिः -- गीर्भिः, एकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, 'जयविजयमंगल एहिं' जयविजयेत्यादिभिर्मङ्गलाभिधायकवचनशतैरित्यर्थः ।
१४४
‘अनवरयं’ ‘अभिनंदंताय’ अभिनन्दयन्तश्च राजानं समृद्धिमन्तमाचक्षाणाः 'अभिधुणंता य' अभिष्टुवन्तश्च राजानमेवेति 'जय जय नंदा!' जय जयेति सम्भ्रमे द्विर्वचनं नन्दति - समृद्धो भवतीति नन्दस्तस्यामन्त्रणमिदम्, इह च दीर्घत्वं प्राकृतत्वात्, अथवा जय त्वं जगन्नन्द- भुवनसमृद्धिकारक ! 'जय जय भद्दा !' प्राग्वत्, नवरं भद्रः - कल्याणवान् कल्याणकारी वा 'जय जय नन्दा भद्रं ते प्राग्वदेव, नवरं भद्रं ते तव भवत्विति शेषः, 'अजिय' मित्यादीन्याशंसनानि व्यक्तानि ।
मू. (३२- वर्तते) इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुआ बहूई बासाइं बहूई वाससआई बहूइं वाससहस्साइं बहूई वाससयसहस्साइं अहसमग्गो हट्ट परमाउं पालयाहि इट्ठजणसंपरिवुडो चंपाए नयरीए अन्नेसिं च बहूणं गामागरनयर- खेडकब्बडमडंबदोणमुहपट्टण आसमनिगमसंवाहसंनिवेसाणं ।
- आहेवच्चं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽ हयनट्टगीयवाइयतंतीतलतालतुडियघणमुअंगपडुप्पवाइअरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहित्तिकट्टु जय २ सद्दं पउंजंति ।
वृ. 'इंदो इवेत्यादि विहराहि' त एतदन्तं वाचनाद्वयेऽपि व्यक्तं, नवरम्- 'अणहसमग्गो त्ति अनघो - निर्दोषः समग्रः - समग्रपरिवार ः 'हठ्ठतुठ्ठे' त्ति अतीव तुष्टः 'परमाउं पालयाहि' त्ति तत्कालापेक्षया यदुत्कृष्टमायुस्तत् परमायुः 'गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसंनिवेसाणं' ग्रामो - जनपदाध्यासितः आकरो - लवणाद्युत्पत्तिभूमि नगरम् - अविद्यमानकरं खेटंधूलीप्राकारं कर्बटं-कुनगरं मडम्बम् - अविद्यमानासन्ननिवेशान्तरं द्रोणमुखं - जलपथस्थल- पथोपेतं पत्तनंजलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तनं रत्नभूमिरित्यन्ये, आश्रमः- तापसाद्यावासः संवाह - पर्वतनितम्बादिदुर्गे स्थानं सन्निवेशो - घोषप्रभृतिरिति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org