Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 73
________________ औपपातिकउपाङ्गसूत्रम्- २९ कवचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्मट्ठरत्यंतरावणवीहियं आसिक्तानि - ईषत्सिक्तानि सिक्तानि च - तदन्यथा अत एव शुचीनि पवित्राणि संमृष्टानि कचवरापनयनेन रध्यान्तराणिरथ्यामध्यानि आपणवीथयश्च हट्टमार्गा यत्र सा तथा तां, 'मंचाइमंचकलियं' मञ्चा - मालकाः प्रेक्षणद्रष्टजनोपवेशननिमित्तम् अतिमञ्चाः - तेषामप्युपरि ये तैः कलिता या सा तथा तां । नानाविहरागउच्छियज्झयपडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैः ऊर्ध्वकृतैः ध्वजै: -- चक्रसिंहादिलाञ्छनोपेतैः पताकाभि-तदितराभिरतिपताकाभिश्चपताको परिवर्तिनीभिमण्डिता या सा तथा तां, सेषो नगरीवर्णकश्चैत्यवर्णक इवानुगमनीयः, 'आणत्तिअं पञ्चप्पिणाहि 'त्ति 'आज्ञप्तिकाम्' आज्ञां प्रत्यर्पय-सम्पाद्य मम निवेदयेत्यर्थः ॥ १३२ मू. (३०) तए णं से बलवाउए कूणिएणं रन्ना एवं वुत्ते समाणे हट्टतुट्ठजावहिअए करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी । सामित्ति आणाइ विनएणं वयणं पडिसुणेइ २ त्ता हत्थिवाउअं आमंतेइ आमंतेत्ता एवं वयासी- खिप्पामेव भी देवाणुप्पिआ ! कूणिअस्स रन्नो भंभसारपुत्तस्स आभिसेक्क हत्थिरयणं पडिकप्पेहि, हयगयहपवरजोहकलियं चाउरंगिणि सेनं सण्णाहिहि सण्णाहित्ता एअमाणत्तिअं पच्चप्पिणाहि । तए णं से हत्थिवाउए बलवाउअस्स एअमहं सोच्चा आणाए विनएणं वयणं पडिसुणेइ पडिसुणित्ता छेआयरियउवएसमइविकप्पणाविकप्पेहिं सुनिउणेहिं उज्जलणेवत्थहत्थपरिवत्थिअं सुसज्जं धम्मि असण्णद्धबद्धकवइयउप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंत अहियते अजुत्तं सललिअवरकण्णपूरविराइअं पलंबउच्चूलमहुअरकयंधयारं चित्तपरिच्छे अपच्छयं पहरणावरण भरिअजुद्धसज्जं सच्छत्तं सज्झयं सघंटं सपडागं पंचामेलअपरिमंडिआभिरामं ओसारियजमलजुअलघंटं विज्जुपणद्धं व कालमेहं उप्पाइयपव्वयं व चंकमंतं मत्तं गुलगुलंतं मणपवणजइणवेगं भीमं संगामियाओज्जं अभिसेक हत्थिरयणं पडिकप्पइ पडिकप्पेत्ता हयगयरहपवरजोहकलिअं चाउरंगिणि सेनं सण्णाहेइ, सण्णाहित्ता जेणेव बलवाउए तेणेव उवागच्छइ उवागच्छित्ता एअमाणत्तिअं पञ्चप्पिणइ । तए णं से बलवाउए जाणसालिअं सद्दावेइ २ त्ता एवं वयासी- खिप्पामेव भो देवाणुप्पि आ सुभद्दापमुहाणं देवीणं बाहिरियाए उवठ्ठाणसालाए पाडिएकपाडिएकई जत्ताभिमुहाई जुत्ताई जाणाई उवठ्ठवेह २ त्ता एअमाणत्तिअं पञ्चप्पिणाहि । . 'हथवाउति हस्तिव्यावृतो महामात्रः, इह प्रदेशे 'आभिसेवं हत्थिरयणं' ति यत्क्वचिद् दृश्यते सोऽपपाठः, अग्रे एतस्य वक्ष्यमाणत्वात्, 'छेआयरियउवएसमइकप्पणाविकप्पेहिं' छेकोनिपुणो य आचार्य-शिल्पोपदेशदाता तस्योपदेशाद्या मति-बुद्धिस्तस्या ये कल्पना-विकल्पाः क्लप्तिभेदास्ते तथा तैः, किंविधैः ? 'सुनिउणेहिं' ति व्यक्तं, निपुणनरैर्वा, 'उज्जलणेवत्थहत्थपरिवत्थियं' ति उज्ज्वलनेपथ्येन निर्मलवेषेण हत्यंति - शीघ्रं परिपक्षितं परिगृहीतं परिवृत्तं यत्तत्तथा तत्, पाठान्तरे उज्वलनेपथ्यैरिति । 'सुसज्ज' ति सुष्ठु प्रगुणं, 'धम्मियसण्णद्धबद्धकवइय- उप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंतं' ति धर्मणि नियुक्ता धार्मिकाः तैः सन्नद्धं - कृतसन्नाहं यत्तद्धार्मिकसन्नद्धं बद्धं कवचं - सन्नाहविशेषो यस्य तत्तथा, तदेव बद्धकव- चिकम्, अथवा धर्मितादयः शब्दा एकार्था Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150