________________
औपपातिकउपाङ्गसूत्रम्- २९
कवचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्मट्ठरत्यंतरावणवीहियं आसिक्तानि - ईषत्सिक्तानि सिक्तानि च - तदन्यथा अत एव शुचीनि पवित्राणि संमृष्टानि कचवरापनयनेन रध्यान्तराणिरथ्यामध्यानि आपणवीथयश्च हट्टमार्गा यत्र सा तथा तां, 'मंचाइमंचकलियं' मञ्चा - मालकाः प्रेक्षणद्रष्टजनोपवेशननिमित्तम् अतिमञ्चाः - तेषामप्युपरि ये तैः कलिता या सा तथा तां ।
नानाविहरागउच्छियज्झयपडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैः ऊर्ध्वकृतैः ध्वजै: -- चक्रसिंहादिलाञ्छनोपेतैः पताकाभि-तदितराभिरतिपताकाभिश्चपताको परिवर्तिनीभिमण्डिता या सा तथा तां, सेषो नगरीवर्णकश्चैत्यवर्णक इवानुगमनीयः, 'आणत्तिअं पञ्चप्पिणाहि 'त्ति 'आज्ञप्तिकाम्' आज्ञां प्रत्यर्पय-सम्पाद्य मम निवेदयेत्यर्थः ॥
१३२
मू. (३०) तए णं से बलवाउए कूणिएणं रन्ना एवं वुत्ते समाणे हट्टतुट्ठजावहिअए करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ।
सामित्ति आणाइ विनएणं वयणं पडिसुणेइ २ त्ता हत्थिवाउअं आमंतेइ आमंतेत्ता एवं वयासी- खिप्पामेव भी देवाणुप्पिआ ! कूणिअस्स रन्नो भंभसारपुत्तस्स आभिसेक्क हत्थिरयणं पडिकप्पेहि, हयगयहपवरजोहकलियं चाउरंगिणि सेनं सण्णाहिहि सण्णाहित्ता एअमाणत्तिअं पच्चप्पिणाहि ।
तए णं से हत्थिवाउए बलवाउअस्स एअमहं सोच्चा आणाए विनएणं वयणं पडिसुणेइ पडिसुणित्ता छेआयरियउवएसमइविकप्पणाविकप्पेहिं सुनिउणेहिं उज्जलणेवत्थहत्थपरिवत्थिअं सुसज्जं धम्मि असण्णद्धबद्धकवइयउप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंत अहियते अजुत्तं सललिअवरकण्णपूरविराइअं पलंबउच्चूलमहुअरकयंधयारं चित्तपरिच्छे अपच्छयं पहरणावरण भरिअजुद्धसज्जं सच्छत्तं सज्झयं सघंटं सपडागं पंचामेलअपरिमंडिआभिरामं ओसारियजमलजुअलघंटं विज्जुपणद्धं व कालमेहं उप्पाइयपव्वयं व चंकमंतं मत्तं गुलगुलंतं मणपवणजइणवेगं भीमं संगामियाओज्जं अभिसेक हत्थिरयणं पडिकप्पइ पडिकप्पेत्ता हयगयरहपवरजोहकलिअं चाउरंगिणि सेनं सण्णाहेइ, सण्णाहित्ता जेणेव बलवाउए तेणेव उवागच्छइ उवागच्छित्ता एअमाणत्तिअं पञ्चप्पिणइ ।
तए णं से बलवाउए जाणसालिअं सद्दावेइ २ त्ता एवं वयासी- खिप्पामेव भो देवाणुप्पि आ सुभद्दापमुहाणं देवीणं बाहिरियाए उवठ्ठाणसालाए पाडिएकपाडिएकई जत्ताभिमुहाई जुत्ताई जाणाई उवठ्ठवेह २ त्ता एअमाणत्तिअं पञ्चप्पिणाहि ।
. 'हथवाउति हस्तिव्यावृतो महामात्रः, इह प्रदेशे 'आभिसेवं हत्थिरयणं' ति यत्क्वचिद् दृश्यते सोऽपपाठः, अग्रे एतस्य वक्ष्यमाणत्वात्, 'छेआयरियउवएसमइकप्पणाविकप्पेहिं' छेकोनिपुणो य आचार्य-शिल्पोपदेशदाता तस्योपदेशाद्या मति-बुद्धिस्तस्या ये कल्पना-विकल्पाः क्लप्तिभेदास्ते तथा तैः, किंविधैः ? 'सुनिउणेहिं' ति व्यक्तं, निपुणनरैर्वा, 'उज्जलणेवत्थहत्थपरिवत्थियं' ति उज्ज्वलनेपथ्येन निर्मलवेषेण हत्यंति - शीघ्रं परिपक्षितं परिगृहीतं परिवृत्तं यत्तत्तथा तत्, पाठान्तरे उज्वलनेपथ्यैरिति ।
'सुसज्ज' ति सुष्ठु प्रगुणं, 'धम्मियसण्णद्धबद्धकवइय- उप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंतं' ति धर्मणि नियुक्ता धार्मिकाः तैः सन्नद्धं - कृतसन्नाहं यत्तद्धार्मिकसन्नद्धं बद्धं कवचं - सन्नाहविशेषो यस्य तत्तथा, तदेव बद्धकव- चिकम्, अथवा धर्मितादयः शब्दा एकार्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org