________________
मूलं-३०
१३३
एव सन्नद्धताप्रकर्षख्यापनार्था, भेदो वैषामस्ति, सच रूढितोऽवसेयः, तथाउत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि-उरसि यस्य तत्तथा, "वक्षःकक्ष' इति पाठान्तरं।
तथा बद्धं ग्रैवेयकं-ग्रीवाभरणं गले यस्य तत्तथा, तथा वरभूषणैर्विराजमानं यत्तत्तथा, ग्रैवेयकबद्धभूषणविराजितमिति पाठान्तरं, ततोधर्मितादीनां कर्मधारयः, अतस्तत्, 'अहियतेयजुत्तं तिकवचिश्यते, तत्राधिकाधिकेन अत्यर्थ-मधिकेन अहितानांवा शत्रूणामहितेन-अपथ्येन तेजसा-प्रभावेण युक्तं यत्तत्तथा तत् । _ 'सललियवरकण्णपूरविराइयं' सललिते-लालित्योपेते बरेये कर्णपूरे-कर्णाभरणे ताभ्यां विराजितं यत्ततथा तत्, ‘पलंबउच्चूलमहुअरकयंधयारं' प्रलम्बान्यवचूलानि-टगकन्यस्ताधोमुखकूर्चका यस्य तत् प्रलम्बावचूलं मधुकरैः-भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं यस्य तत्तथा,ततःकर्मधारयः,अतस्तत, वाचनान्तरं त्वेवं नेयं विरचितवरकर्णपूरंसललितप्रलम्बावचूलं च चामरोत्करकृतान्धकारं च यत्तत्तथा तत्, चामरोत्करकृतान्धकारता तु चामराणां कृष्णत्वात्, 'चित्तपरिच्छेयपच्छ्यं' चित्रः परिच्छेको लघुः प्रच्छदो-वस्त्रविशेषोयस्य तत्तथा तत्, 'पहरणावरणभरियजुद्धसज्ज प्रहरणावरणानाम्-आयुधकवचानां भृतं यत् युद्धसज्जंच-सङ्ग्रामप्रगुणं यत्तत्तथा तत्, पाठान्तरे 'सचापशरप्रहरणावरणभरितयुद्धसज्ज मिति ।
सच्छत्रं सध्यजं सघण्टमिति व्यक्तम, सपताकमित्यपि ४श्यते, तत्र पताकागरुडसिंहादिचिह्नरहिताः, 'पंचामेलयपरिमंडियाभिरामं पञ्चभि-आमेलकैःचूडाभिपरिमण्डितमत एवाभिराम-रम्यंयत्तत्तथातत, 'ओसारियजमलजुयघंट' अवसारितम्-अवलम्बितंयमलं-समं युगलं-द्विकं घण्टयोर्यत्र तत्तथा तत्, 'विजुपणद्धं व कालमेहं' घण्टाप्रहरणादीनामुज्ज्वलदीप्तियुक्तत्वेन विद्युत्कल्पत्वात् विद्युत्परिगतमिवेत्युक्तं, हस्तिदेहस्य कालत्वेन महत्वेन च मेघकल्पत्वात्कालमेघमित्युक्तम्, 'उप्पाइयपव्वयंवचंकमंत' स्वाभाविकपर्वतो हिनचकमते अतउच्यते औत्पातिकपर्वतमिव चङ्कम्यमाणं, पाठान्तरेतुऔत्पातिकपर्वतमिव सक्खंति-साक्षात्
मित्तं गुलुगुलंत मिति व्यक्तं, कवचित् 'महामेघ'मिवेति श्यते, 'मणपवणजइणवेगं' मनःपवनजयी वेगो यस्य तत्तथा तत्, शीघ्रवेगमिति कचित, 'भीमं संगामियायोग्गं साङ्ग्रा मिकआयोगः-परिकरोयस्य तत्तथा तत्, पाठान्तरे 'संगामियाओजं" सानामिकातोद्यं-साझामिक वाद्यमित्यर्थ, पाठान्तरे साङ्गामिकम् अयोध्यं येनसहापरो हस्ती नयोद्धुं शक्नोति तदयोध्यं
मू. (३०-वर्तते) तए णं से जाणसालिए बलवाउअस्स एअमट्ठ आणाए विनएणं वयणं पडिसुणेइ पडिसुणित्ताजेणेव जाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता जाणाइंपछुवेक्खेइ २ ता जाणाई संपमजेइ २ ता जाणाई संवट्टेइ जाणाई संवदेत्ता जाणाइं जीणे जाणाइं जीणेत्ता जाणाणं दूसे पवीणेइ २ त्ता जाणाइं समलंकरेइ २ त्ता जाणाई वरभंडकमंडियाई करेति र त्ता।
जेणेव वाहणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता वाहणाई पछुवेक्खेइ २ ता वाहणाई संपमजइ २त्ता वाहणाई नीणेइ २ ता वाहणाई अप्फालेइ२ ता दूसे पवीणेइ २ ता वाहणाइंसमलंकरेइ २ त्ता वाहणाइंवरभंडकमंडियाई करेइ २ ता वाहणाईजाणाइंजोएइ २ ता पओदलट्ठि पओअधरे असमं आडहइ आडहित्ता वट्टमग्गंगाहेइ २ ता जेणेव बलवाउए तेणेव उवागच्छइ २ त्ता बलवाउअस्स एअमाणत्तिअंपञ्चप्पिणइ।
तएणं से बलवाउए नयरगुत्तिए आमंतेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org