Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१३०
औपपातिकउपाङ्गसूत्रम्- २७
तन्मयमिव नगरं विदधाना इत्यर्थः क्वचिदिदं पदचतुष्टयं दृश्यते- 'पायदद्दरेणं भूमिं कंपेमाण' त्ति त्वरितगमनजनितपादप्रहारेण, 'अंबरतलमिव फोडेमाण'त्ति पादपातप्रतिरवेणाकाशं स्फोटयन्त इव, 'एगदिसिं 'ति एकया दिशा पूर्वोक्तलक्षणया, 'एगामिमुह' त्ति एकं भगवन्तमभि लक्षणीकृत्य मुखं येषां ते एकाभिमुखाः, 'तित्थगराइसेसे 'त्ति तीर्थकरातिशेषान् जिनातिशयान् ।
'जाणवाहणारं ठावइति 'त्ति यानानि शकटादीनि वाहनानि - गवादीनि स्थापयन्तिस्थितीकुर्वन्ति, कचिद् 'विठ्ठब्मंती' ति दृश्यते, तत्र विशेषेण स्तम्भयन्ति - निश्चलीकुर्वन्ति, इति वाचनान्तरगतं बहु लिख्यते - ' जाणाई मुयंति' त्ति भुवि विन्यस्यन्ति, 'वाहणारं विसज्जेंति' त्ति चरणार्थं मुत्कलयन्ति, 'पुप्फतंबोलाइयं आउहमाइयं सच्चित्तालंकारं ति सचित्तं च--सचेतनमलङ्कारं च-राजलक्षणं च विसर्जयन्ती ति योगः, किंरूपं सचित्तमित्याह - पुष्पताम्बूलादिकम्, आदिशब्दात् तथाविधफलादिग्रहः, तथा अलङ्कारं च किंविधमित्याह - आयुधादिकम्, आयुधं खङ्गादि आदिशब्दाच्छत्रचामरमुकुटपरिग्रहः, 'पाहणाओ य'त्ति उपानहौ च ।
'एगसाडियं उत्तरासंगं' ति एकशाटकवन्तमुत्तरीयविन्यासविशेषं, 'आयंत' त्ति आचान्ताःशौचार्थ कृतजलस्पर्शा, 'चोक्ख' त्ति आचमनदपनीताशुचिद्रव्याः, 'परमसुईभूय'त्ति अत एवात्यर्थं शुचीभूताः, 'अभिगमेणं' ति उपचारेण, 'अभिगच्छंति' भगवन्ति मुपचरन्ति, 'चक्खुप्फासे 'ति दर्शने 'मणसा एगत्तीभावकरणेणं' ति अनेकत्वस्य एकत्वस्य भवनम् एकत्वीभावस्तस्य यत् करणं तत्तथा तेन एकत्वीभावरणेन, आत्मन इति गम्यते, मनसः एकाग्रतयेत्यर्थ, कायिकपर्युपासनामाह - 'सुसमाहियपसंतसाहरियपाणिपाया' सुसमाहितैः - बहिवृर्त्याऽत्यन्तनिभृतैः प्रशान्तैः - अन्तर्वृत्या उपशान्तैः सद्भि संहतं-संलीनी कृतं पाणिपादं यैस्ते तथा ।
अत एव 'अंजलिमउलियहत्था' अञ्जलिना -अञ्जलिरूपतया मुकुलितौ-मुकुलाकारौ कृती हस्तौ यैस्ते तथा, वाचिकपर्युपासनामाह-'एवमेयं भंते' त्ति एवमेतद्भदन्त ! भट्टारकेति सामान्यतः 'अवितहमेयं' ति विशेषतः अत एव 'असंदिद्धमेयं 'ति शङ्काया अविषय इत्यर्थ, अत एव 'इच्छियमेयं' ति इष्टमस्माकमेतत्, अत एव 'पडिच्छियमेयं 'ति भगवन्मुखात् पतत् प्रतीप्सितमागृहीतमेतत्, इह च किञ्चिदिष्टमेव दृष्टमन्यत् प्रतीप्सितमेवेत्यत उच्यते- 'इच्छियपडिच्छियमेयं'ति, 'सच्चे णं एसमट्टे' प्राणिहितोऽयमर्थ इति, 'माणसियाए' 'तचित्त 'त्ति तस्मिन् भगवद्वचने चित्तं - भावमनो येषां ते तच्चित्ताः, सामान्योपयोगापेक्षया वा तच्चित्ताः, 'तम्मण' त्ति तन्मनसो द्रव्यमनः प्रतीत्य विशेषोपयोगं वा, 'तल्लेस्स' त्ति तल्लेश्याः भगवद्वचनगतशुभात्मपरिणामविशेषाः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः, तदाहकृष्णादिद्रव्यसाचिव्यात्, परिणामी य आत्मनः ।
|| 9 ||
स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥
'तयज्झवसिय'त्ति इहाध्यवसयः अध्यवसितं तच्चित्तत्वादिभावयुक्तानां सतां तस्मिन्भगवद्वचने एवाध्यवसितं क्रियासम्पादनविषयं येषां ते तदध्यवसिताः, 'तत्तिव्वज्झवसाण' त्ति तस्मिन्नेव - भगवद्वचने तीव्रमध्यवसानं श्रवणविधिक्रियाप्रयत्नविशेषरूपं येषां ते तथा, 'तदप्पियकरण’त्ति तस्मिन्-भगवत्यार्पितानि करणानि - इन्द्रियाणि शब्दरूपादिषु श्रोत्रचक्षुरादीनि यैस्ते तदर्पितकरणाः, 'तयट्ठोवउत्त' त्ति तस्य - भगवद्वचनस्य योऽर्थस्तत्रोपयुक्ता ये ते तदर्थोपयुक्ताः, तब्भावणाभाविय'त्ति तेन - भगवद्वचनेन तदर्थेन वा यका भावना - वासना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150