Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१०२
औपपातिकउपाङ्गसूत्रम्-१६
पाठान्तरेणात्मवादिनोजैना इत्यर्थ, विदिताः-प्रतीताः भवन्ति,ततापरवादाः-शाक्यादिमतानि, पाठान्तरेण परवादिनः-शाक्यादयो विदिता भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च आयावायति स्वसिद्धान्तं 'जमइत्त'त्ति पुनः पुनरावर्तनेनातिपरिचितं कृत्वा, किमिव के इत्याहनलवनमिव मत्तमातङ्गा इति प्रतीतं, नलवना इति पाठान्तरं, नलवनानीवेति व्याख्येयं, ततः 'अच्छिद्दपसिणवागरण'त्ति अविरलप्रश्ना अविरलोत्तराश्च सम्भूताः सन्तो विहरन्तीति योगः, 'रयणकरंडगसमाण त्ति प्रतीतं । ___'कुत्तिआवणभूअत्ति कुत्रिक-स्वर्गमर्त्यपातालक्षणंभूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिक, तत्सम्पादकआपणो-हट्टः कुत्रिकापणस्तद्भूताः-समीहितार्थसम्पादनलब्धियुक्तत्वेन तदुपमाः, 'परवाइयपमद्दणत्तितन्मतप्रमर्दनात् 'परवाईहिं अणोकताा इत्यादिचोद्दसपुवी'त्यन्तं वाचनान्तरं, तत्र अनुपक्रन्ता-अनिराकृता इत्यर्थ, अन्नउस्थिएहिति अन्ययूथिकै:-परतीर्थिकः 'अणोद्धसिजमाण'त्ति अनुपध्वस्यमानाः माहात्म्यादपात्यमानाः, विहरन्ति-विचरन्ति, 'अप्पेगइया
आयाघरे' त्येवमादीनि षोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनामूतत्वेऽपि तस्यातिशयेन धरणात्सूत्रकृतधरा इत्याधुक्तम्, अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम्, अथवा विदेर्विचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूव्यादिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति।।
चतुर्दशपूर्वित्वेसत्यपि द्वादशामित्वं केषाञ्चिन्न स्याच्चतुर्दशपूर्वाणांद्वादशाङ्गस्यांशभूतत्वात, अत आह-"दुवालसंगिणो'त्ति, तथा द्वादशाङ्गित्वेऽपि न समस्तश्रुतधरत्वं केषाञ्चित्स्यादित्यत आह–'समत्तगणिपिडगधर गणीनाम् अर्थपरिच्छेदानां पिटकमिव पटकं-स्थानंगणिपिटकम्, अथवा पिटकमिव वालञ्जक- वाणिजकसर्वस्वाधारभाजनविशेष इव यत्तपिटकं, गणिनआचार्यस्य पिटकंगणिपिटक-प्रकीर्णकश्रुतादेशश्रुतनियुक्त्यादियुक्तंजिनप्रवचनं, समस्तम्अनन्तगमपर्यायोपेतं गणिपिटकं धारयन्ति येते तथा। ___अतएव ‘सब्बरखरसण्णिवाइणो तिसर्वेअक्षरसन्निपाताः-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषांते तथा, 'सबभासाणुगामिणो'त्ति सर्वभाषा:-आर्यानार्यामरवाचःअनुगच्छन्ति-अनुकुर्वन्ति तद्भाषाभाषित्वात् स्वभाषयैव वा लब्धिविशेषात्तथाविधप्रत्ययजननात्, अथवा सर्वभाषाःसंस्कृतप्राकृतमागध्याद्याअनुगमयन्ति-व्याख्यान्तीत्येवंशीला येते तथा, 'अजिन'त्ति असर्वज्ञाः सन्तो जिनसङ्काशाः, जिना इवावितथं व्याकुर्वाणाः॥
मू. (१७) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अनगारा भगवंतो इरिआसमिआ भासासमिआएसणासमिआ आदानभंडमत्तनिक्खेवणासमिआ उचारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिआ मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुतिंदिया गुत्तबंभयारी अममा अकिंचणा।
छिन्नग्गंथा छिन्नसोआ निरवलेवा कंसपातीव मुक्कतोआ संख इव निरंगणा जीवो विव अप्पडिहयगती जच्चकणगंपिवजातरूवा दरिसफलगाविव पागडभावा कुम्मो इव गुत्तिदिआ पुकखरपत्तं व निरुवलेवा गगणमिव निरालंबणा अणिलो इव निरालया चंद इव सोमलेसा सूर इव दित्ततेआ सागरो इव गंभीरा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150