Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं - २६
अतिशयेन प्रभा येषां तानि तथा तैः, 'मणिकणगरयणघडियजालुज्जलहेमजालपेरंतपरिगएहिं' मणिकनकरतैर्घटितं युक्तं यज्वालोउवलं प्रभोज्वलं हेमलाजं स्वर्णजालकं तेन पर्यन्तेषु परिगतानि तानि तथा तैः, 'सपयरवरमुत्तदामलंबंतभूसणेहिं' सह प्रतरैः - आभरणविशेषैर्वरमुक्तादामलक्षणानि लम्बमानानि भूषणानि येषु तानि तथा तैः, 'पचलियघंटावलिमहुरसद्दवंसतंतितलतालगीयवाइयरवेणं' प्रचलितायाः घम्टावल्याः यो मधुरः शब्दः स तथा वंश - वेणुस्तीच - वीणा तलतालाश्च - हस्तताला अथवा तलाश्च- हस्ताः तालाश्च-कंशिका गीतं च--गेयं वादितं च-वादित्रमिति द्वन्द्व : अतस्तेषां यो रवः - शब्दः स तथा, ततः पदद्वयस्य समाहारद्वन्द्वः, अतस्तेन करमभूतेन मधुरेणमनोहरेण पूरयन्तः अम्बरं, दिशश्च शोभयन्तस्त्वरितं सम्प्रस्थिताः स्थिरयशसो देवेन्द्रा इति व्यक्तं ।
'हट्ठतुठ्ठमणस' त्ति अतीव तुष्टचित्ताः 'सेसावि य'त्ति इन्द्रसामानिकादयः, तानेवाह'कप्पवरविमाणाहिवा' कल्पेषु यानि वरविमानानि तेषामधिपा इत्यर्थ, समनुयान्ति सुरवरेन्द्रानिति योगः, अत एव सुरवराः 'सविमाणविचित्त चिंधनामंक विगडपागडमउडाडोवसुभदंसणिज्जा' स्वविमानविचित्रचिह्नानां नामाङ्कविकप्रकटमुकुटानां च य आटोपः - स्फारता तेन शुभा ये दृश्यन्ते ते तथा ते विचित्रकल्पवरविमानाधिपाः, 'समन्निंति' त्ति समनुयान्ति समनुगच्छन्ति सुरवरेन्द्रानिति, तथा 'लोयंत विमाणवासिणोयावि देवसंघाय 'त्ति लोकस्य -ब्रह्मलोकस्यान्ते - समीपे यानि विमानानि तद्वासिनो लोकान्तिकाश्चापीत्यर्थः ।
१२३
'पत्तेयविरायमामचिरइयमणिरयणकुंडलभिसंतनिम्मलनियगंकियविचित्तपागडियचिंधमउडा' प्रत्येकं विराजमानानि - शोभमानानि विरचितानि - कर्णेषु कृतानि मणिरत्नकुण्डलानि येषां ते तथा, भिसंतत्ति - दीप्यमानानि निर्मलानि निजाङ्कितानि निजकेन नामादिनाऽङ्केनाङ्कितानि विचित्राणि - विविधानि प्रकटितानि - प्रकाशितानि चिह्नानि च मुकुटानि चिह्नप्रधानानि वा मुकुटानियैस्ते तथा, तथा 'दायंत' त्ति दर्शयन्तः 'अप्पणो समुदयं ति आत्मीयं ऋद्धयादिसमूहं 'पेच्छंतावि य परस्स रिद्धीउ' त्ति प्रेक्षमाणाश्च परद्धीः उत्तमाः, एवं कल्पालयाः सरवराः 'जिणिदवंदननिमित्तभत्तीए 'त्ति जिनेन्द्रवन्दन हेतु भूतभावेन 'चोइयमइ' त्ति प्रेरितबुद्धयः हर्षितमानसाश्च जीतकल्पमनुवर्तमाना देवाः 'जिणदंसणूस्सुयागमणजणियहासा' जिनदर्शनाय यदुत्सुकं - शीघ्रमागमनं तेन जनितो हर्षो येषां ते तथा ।
'विउलबलसमूहपिंडिया' विपुलो बलसमूहः- सैन्यसमुदायः पिण्डितो यैस्ते तथा, कथमित्याह - 'संभमेणं' ति भक्तिकृतौत्सुक्येन 'गयणतलविमलविउलगमणगइचवलचलियमणपवणजइणसिग्घवेगा' गगनतले विमले विपुले च यद्गमनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः गतिश्चपला स्वरूपत एव यस्य तद्गतिचपलं तच्च तच्चलितं च गन्तुं प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोऽत एव शीघ्रो वेगो येषां ते तथा, नानाविधयानवाहनगताः यानानि - रथादीनि वाहनानि - गजादीनि उच्छ्रितविमलधवलातपत्राः । 'विउब्वियजाणवाहणविमाणदेहरयणप्पभाए' त्ति वैक्रयाणां यानादीनां ४ रत्नानां च स्वाभाविकानामितरेषां च या प्रभा सा तथा तया, 'उज्जोएंता नह' कथमित्याह
'वितिमिरं करेंता' नभ एवेति 'सव्विड्डीए' युक्ता इति शेषः, 'हुलियं 'ति शीघ्रं प्रयाताः गमान्तरमिदम् -'पसिढिलवरमउडतिरीडधारी' प्रश्लथाः- शिथिलबन्धना, गाढबन्धनानां
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150