Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं - २६
मित्यर्थः फुलकं - पुष्पाकृतिललाटाभरणं सिद्धार्थिका-सर्षपप्रमाणसुवर्णकणरचितसुवर्णमणिमयी कण्ठिका कर्णवालिका - कर्णोपरितनभागभूषणविशेषः शशिसूरऋषभचक्रकानि तलभङ्गकं च रूढिगम्यानि त्रुटिका :- बाहुरक्षिकाः हस्तमालक :- अणेत्रिका हरिसत्ति - रूढिगम्यं केयूरम् अङ्गदं बाह्वाभरणविशेषः वलयानि - कटकविशेषाः प्रालम्बो - झुम्बनकं प्रलम्बो गलाभरणविशेषः इत्यर्थ अङ्गुलीयकानि - अङ्गुल्याभरणविशेषाः वलाक्षं-रूढिगम्यं दीनारमालिकाचन्द्रमालिकासूर्यमालिकास्तु दीनाराधाकृतिमालाः काञ्चीमेखलयोः कटयाभरणयोर्यद्यपि नामकोशे एकार्थत्वमधीयते तथापीह विशेषो रूढेरवसेयः कलापः कण्ठाभरणविशेषो मेखलाकलाप इति वा द्रष्टव्यं - प्रतरकाणि - वृत्तप्रतला आभरणविशेषाः परिहेरगत्ति- रूढयवसेयं पादजालघण्टिकाःपादाभरणविशेषाः किङ्किणीका:- क्षुद्रघण्टिकाः रत्नोरुजालं- रत्नमयं जनयोः प्रलम्बमानं सङ्कलकं क्षुद्रिकाः- तत्प्रान्तघण्टिकाः वरनुपुराणिप्रतीतानि क्षुद्रिकावरनूपुराणि वा क्षुद्रघण्टिकाप्रधानतुलाकोटिकानि चलनमालिका - पादाभरणविशेषः कनकनिगलानिनिगडाकाराः सौवर्णपादाभरणविशेषाः जालकं-चरणाभरणविशेषः, मकरमुखविराजमाननूपुराणि - प्रतीतानि ।
‘दसद्धवण्णरागरइयरत्तमणहरे' त्ति दशार्द्धवर्णे- पञ्चवर्णै रागै-रञ्जनद्रव्यैः कुसुम्भादिभिर्यानि रञ्जितत्वेन रक्तानीव रक्तानि मनोहराणि च तानि तथा तानि अंशुकानि निवसिता इति योगः, महार्घाणि, नासानिश्वासवायुवाह्यानि लघुनीत्यर्थ, चक्षुर्हराणि अङ्गावारकत्वात्, वर्णस्पर्शयुक्तानि अतिशयवर्णादीनीत्यर्थ, 'हयलालापेलवाइरेगे' अस्वलालाभ्यः सकाशात् पेलवानि - सुकुमाराण्यतिरेकेण यानि तानि तथा, 'धवले' त्ति कानिचिद्धवलानि, 'कणगखचियंतकम्मे' कनकखचितं - सुवर्णमण्डितम् अन्तकर्म-अञ्चलकर्म वानलक्षणं येषां तानि तथा, 'आगासफालियसरिसप्पहे' आकाशस्फटिकयोराकाशरूपस्फटिकस्य वा सद्दशी प्रभा येषां तानि तथा 'अंसुए नियत्थाओ' त्ति वस्त्राणि निवसिताः ।
'आयरेणं' ति व्यक्तं, 'तुसार गोक्खीरहारदगरयपंडुरदुगुल्लसुकुमालसुकयरमणिजउत्तरिजाई पाउयाओ' त्ति व्यक्तं, नवरं तुषारं-हिमं दगरयत्ति उदकरजस्तद्वत् पाण्डुराणि यानि दुकूलानि - वस्त्राणि तान्येव सुकुमालानि सुकृतानि रमणीयानि च यान्युत्तरीयाणि तानि तथा तानि प्रावृताः, ‘वरचन्दनचर्चिताः वराभरणभूषिता' इति व्यक्तं, 'सव्वोउयसुरभिकुसुमसुरइयविचित्तवरमल्लधारिणीओ' सर्वर्तुकैः सुरभिकुसुमैः सुरचितं विचित्रं वरं माल्यं -मालां धारयन्ति यास्तच्छीलाश्च तास्तथा, 'सुगंधिचुण्णंगरागवरवासपुष्फपूरगविराइया' सुगन्धिचूर्णैरङ्गरागेण च - देहरञ्जनेन वरवासैः पुष्पपुरकेण च - पुष्परचनाविशेषेण विराजिता यास्तास्तथा,
१२५
'अहियसस्सिरीया' अधिकं सह श्रिया - शोभया यास्तास्तथा, 'उत्तमवरधूवधूविया' उत्तमानां मध्ये यो वरधूपः स तता तेन धूपेन धूपिताः - कृतसीगन्ध्याः यास्तास्तथा, 'सिरीसमाणवेसा' श्रीः - देवता सा च लोके शोभनवेषेति रूढ अतस्तयोपमा कृतेति, 'दिव्वकुसुममल्लादमपब्धंजलिपुडाओ' दिव्यैः - वरैः कुसुमैः - अविकसितैः माल्यैः - विकसितैः दामभिश्च - तन्मयमालाभि प्रह्वाः– पूजासज्जाः अञ्जलिपुटाः - अञ्जलय एव यासां तास्तथा, उच्चत्वेन च सुराणां स्तोकोनमुच्छ्रिताः 'चन्द्रानना' इति व्यक्तं, 'चंदविलासिणीओ' त्ति चन्द्रस्येव विलासः - कान्तिर्यासां तास्तथा, 'चन्द्रार्द्धसमललाटाः चन्द्राधिकसौम्यदर्शना उल्का इवोद्योतमाना' इति व्यक्तं, 'विजुघणमिरीइसूरदिष्पंततेअअहियतरसंनिकासाओ' विद्युतो ये घना मरीचयः - किरणाः सूरस्य च यद्दीसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150