Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं - २०
११३
वृ. 'कंदणय'त्ति महता शब्देन विरवणं 'सोअणय'ति दीनता, 'तिप्पणय'त्ति तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं विलपनता - पुनः पुनः क्लिष्टभाषणमिति, 'उसण्णदोसे' त्ति उसण्णेन - बाहुल्येनानुपरतत्वेन दोषो - हिंसाऽनृतादत्तादानसंरक्षणानामन्यतमः उसण्णदोषः, तता ' बहुदोसे 'ति बहुष्वपि सर्वेष्वपि हिंसादिषु ४ दोषः - प्रवृत्तिलक्षणो बहुदोषः 'अन्नाणदोसे' त्ति अज्ञानात् कुशास्त्रसंस्काराद्धिंसादिष्वधर्मस्वरूपेषु धर्मबुद्धया या प्रवृत्तिस्तल्लक्षणो दोषः अज्ञानदोषः, 'आमरणंतदोसे' त्ति मरणमेवान्तो मरणान्तः आ मरणान्तात् आमरणान्तम्, असंज्ञातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु ४ प्रवृत्ति सैव दोषः आमरणान्तदोषः, इह चार्तरौद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले त्वासेव्यतयेति
चउप्पडोयारे त्ति चतुर्षु - भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतारः - समवतारो वक्ष्यमाणस्वरूपो यस्य तञ्चतुष्प्रत्यवतारमिति ।
' आणाविजए 'त्ति आज्ञा - जिनप्रवचनं तस्या विचयो - निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजयं, आज्ञागुणानुचिन्तनमित्यर्थ, एवं शेषपदान्यपि, नवरम् अपायाःरागद्वेषादिजन्या अनर्था, विपाकः - कर्मफलं, संस्थानानि - लोकद्वीपसमुद्राद्याकृतयः ।
'आणारुई 'त्ति नियुक्त्यादि श्रद्धानं 'निसग्गरुई 'त्ति स्वभावत एव तत्वश्रद्धानम् 'उवएसरुई 'त्ति साधूपदेशात्तत्वश्रद्धानं 'सुत्तरुई 'त्ति आगमत्तत्त्वश्रद्धानम् 'आलंबण 'ति आलम्बानानि धर्मध्यानसौधशिखरारोहणार्थं यान्यालम्ब्यन्ते - आश्रीयन्ते तान्यालम्बनानि - वाचनादीनि, अनित्यत्वा शरणत्वैकत्वसंसारानुप्रेक्षाः प्रतीताः ।
मू. (२०-वर्तते) सुक्कज्झाणे चउव्विहे चउप्पडोआरे पन्नत्ते, तंजहा- पुहुत्तवियक सविआरी १ एगत्तवियक्क अविआरी २ सुहुमकिरिए अप्पडिवाई ३ समुच्छिन्नकिरिए अनियट्टी, ४, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहा - विवेगे विउसग्गे अव्वहे असम्मोहे ।
सुक्कस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तंजहा-खंती मुत्ती अज्जवे मद्दवे, सुक्कस्स णं झाणस्स चत्तारि अनुप्पेहाओ पन्नत्ताओ, तंजहा- अवायामुप्पेहा असुभाणुप्पेहा अनंतवित्तिआणुप्पेहा विप्परिणामामुप्पेहा, से तं झाणे ॥
वृ. 'पुहुत्तवियक्क सविआरी' त्ति पृथक्त्वेन - एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को - विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत् पृथक्त्ववितर्क, तथा विचारः - अर्थाद्वयञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यतरस्मिन् विचरणं सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः ।
तथा 'गत्तविय अविआरी त्ति एकत्वेन - अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थ, वितर्क - पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्ये विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनः प्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति ।
'सुहुमकिरिए अप्पडिवाइ'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाङ्गनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत् सूक्ष्मत्रियम्, अप्रतिपाति - अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद्, एतच
8 8
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150