Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 58
________________ मूलं-२१ ११७ गामे एगरायं नगरे नगरे पंचरायं दूइज्जन्ता निइंदिया निब्भया गयभया सचित्ताचित्तमीसिएसु दव्वेसु विरागयं गया संजया विरया मुत्ता लहुआ निरवकंखा साहू णिहुआ चरंति धम्म । वृ. 'अन्नाणभमंतमच्छपरिहत्थअणुहुतिंदियमहामगरतुरियचरियखोखुब्ममाणनयंतचवलचंचलचलंतघुम्मंतजलसमूह' अज्ञानान्येव भ्रमन्तो मत्स्याः परिहत्थत्ति-दक्षा यत्र स तता, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानिशीघ्राणि चरितानि-चेष्टितानि तैः खोखुब्ममाणत्ति-भृशं क्षुभ्यमाणो नृत्यत्रिव नृत्यन् चपलानां मध्ये चञ्चलश्च। ___अस्थिरत्वेन चलंश्च स्थानान्तरगमनेन घूर्णश्च-भ्राम्यन् जलसमूहो-जलसजातोऽन्यत्र जडसमूहो यत्र स तथा, ततः कर्मधारयस्ततस्तम्, 'अरइभयविसायसोगमिच्छत्तसेलसंकर्ड' अरतिभयविषादशोकमिथ्यात्वानि प्रतीतानि तान्येव शैलास्तैः सङ्कटो यः स तथा तम्, 'अणाइसंताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं अनादिसन्तानम्-अनादिप्रवाहंयत् कर्मबन्धनंतच्च क्लेशाश्च-रागादयस्तल्लक्षणं यच्चिक्खिल्लं-कर्दमस्तेन सुछु दुस्तारो यः स तथा तम्। _ 'अमरनरतिरियनिरयगइगमणकुडिलपरिवत्तविउलवेलं' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुला च-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्रस तथा तम् चउरंतमहंत'तिचतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं च-महायामम्, 'अनवदगगति अनवदग्रम्-अनन्तमित्यर्थः, ‘रुदंति विस्तीर्णं, संसारसागरमिति व्यक्तं, 'भीमदरिसणिजं तिभीमो दृश्यत इतिभीमदर्शनीयस्तं, तरंति लश्यन्ति, संयमपोतेनेति योगः, किम्भूतेन 'धीईधणियनिष्पकंपेण' धृतिरज्जुबन्धनेन धनिकम्-अत्यर्थं निष्पकम्पः-अविचलो यः स मध्यपदलोपाद्ध तिधनिकनिष्पकम्पस्तेन त्वरितचपलम्-अतित्वरितं यथा भवतीत्येवंतरन्ति । _ 'संवरवेरग्गतुंगकूवयसुसंपउत्तेणं' संवरः-प्राणातिपातादिविरतिरूपो वैराग्यंकषायनिग्रहः एतल्लक्षणो यस्तुङ्गः-उच्चः कूपकः-स्तम्भविशेषस्तेन सुष्टुसम्प्रयुक्तो यः स तथा तेन, 'नाणसियविमलमूसिएणं'ति ज्ञानमेव सितः-सितपटः स विमल उच्छ्रितो यत्र स तथा तेन, मकारश्चेहप्राकृतशैलीप्रभवः सम्मत्तविसुद्धलद्धणिज्जामएणं सम्यक्त्वरूपो विशुद्धो-निर्दोषो लब्धः अवाप्तो निर्यामकः-कर्मधारो यत्रसतथा तेन, धीरा-अक्षोभाःसंयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्थज्झाणतववायपणोल्लियपहाविएणं' प्रशस्तध्यान-धर्मादि तद्रूपं यत्तपः स एव वातो-वायुस्तेन यत् प्रणोदितं-प्रेरणं तेन प्रधावितो-वेगेन चलितो यः स तथा तेन । संयमपोतेनेतिप्रकृतम्, 'उज्जमववसायग्गहियणिअरणजयणउवओगनाणदंसणविसुद्धवयभंडभरिअसारा' उद्यमः-अनालस्यव्यवसायो-वस्तुनिर्णयः सद्वयापारोवाताभ्यां मूलकल्पाभ्यायद्गृहीतं-क्रीतं निर्जरणयतनोपयोगज्ञानदर्शनविशुद्धव्रतरूपंभाण्डक्रयाणकतस्यभरितःसंयमपोतभरणेन पिण्डितः सारो यैस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तत्र निर्जरणं-तपः यतना-बहुदोषत्यागेनाल्पदोषाश्रयणम् उपयोगः-सावधानता ज्ञानदर्शनाभ्यां विशुद्धानि व्रतानि, अथवाज्ञानदर्शने चविशुद्धव्रतानि चेतिसमासः, व्रतानिच महाव्रतानि, पाठान्तरेण 'नाणदसणचरित्तविसुद्धवरमंडभरियसार त्ति तत्र ज्ञानदर्शनचारित्राण्येव विशुद्धवरभाण्डं तेन भरितः सारो यैस्ते तथा, जिनवरवयणोवदिठमग्गेणं अकुडिलेण सिद्धिमहापट्टणाभिमुहा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150