________________
मूलं-२१
११७ गामे एगरायं नगरे नगरे पंचरायं दूइज्जन्ता निइंदिया निब्भया गयभया सचित्ताचित्तमीसिएसु दव्वेसु विरागयं गया संजया विरया मुत्ता लहुआ निरवकंखा साहू णिहुआ चरंति धम्म ।
वृ. 'अन्नाणभमंतमच्छपरिहत्थअणुहुतिंदियमहामगरतुरियचरियखोखुब्ममाणनयंतचवलचंचलचलंतघुम्मंतजलसमूह' अज्ञानान्येव भ्रमन्तो मत्स्याः परिहत्थत्ति-दक्षा यत्र स तता, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानिशीघ्राणि चरितानि-चेष्टितानि तैः खोखुब्ममाणत्ति-भृशं क्षुभ्यमाणो नृत्यत्रिव नृत्यन् चपलानां मध्ये चञ्चलश्च। ___अस्थिरत्वेन चलंश्च स्थानान्तरगमनेन घूर्णश्च-भ्राम्यन् जलसमूहो-जलसजातोऽन्यत्र जडसमूहो यत्र स तथा, ततः कर्मधारयस्ततस्तम्, 'अरइभयविसायसोगमिच्छत्तसेलसंकर्ड' अरतिभयविषादशोकमिथ्यात्वानि प्रतीतानि तान्येव शैलास्तैः सङ्कटो यः स तथा तम्, 'अणाइसंताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं अनादिसन्तानम्-अनादिप्रवाहंयत् कर्मबन्धनंतच्च क्लेशाश्च-रागादयस्तल्लक्षणं यच्चिक्खिल्लं-कर्दमस्तेन सुछु दुस्तारो यः स तथा तम्।
_ 'अमरनरतिरियनिरयगइगमणकुडिलपरिवत्तविउलवेलं' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुला च-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्रस तथा तम् चउरंतमहंत'तिचतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं च-महायामम्, 'अनवदगगति अनवदग्रम्-अनन्तमित्यर्थः, ‘रुदंति विस्तीर्णं, संसारसागरमिति व्यक्तं, 'भीमदरिसणिजं तिभीमो दृश्यत इतिभीमदर्शनीयस्तं, तरंति लश्यन्ति, संयमपोतेनेति योगः, किम्भूतेन 'धीईधणियनिष्पकंपेण' धृतिरज्जुबन्धनेन धनिकम्-अत्यर्थं निष्पकम्पः-अविचलो यः स मध्यपदलोपाद्ध तिधनिकनिष्पकम्पस्तेन त्वरितचपलम्-अतित्वरितं यथा भवतीत्येवंतरन्ति । _ 'संवरवेरग्गतुंगकूवयसुसंपउत्तेणं' संवरः-प्राणातिपातादिविरतिरूपो वैराग्यंकषायनिग्रहः एतल्लक्षणो यस्तुङ्गः-उच्चः कूपकः-स्तम्भविशेषस्तेन सुष्टुसम्प्रयुक्तो यः स तथा तेन, 'नाणसियविमलमूसिएणं'ति ज्ञानमेव सितः-सितपटः स विमल उच्छ्रितो यत्र स तथा तेन, मकारश्चेहप्राकृतशैलीप्रभवः सम्मत्तविसुद्धलद्धणिज्जामएणं सम्यक्त्वरूपो विशुद्धो-निर्दोषो लब्धः अवाप्तो निर्यामकः-कर्मधारो यत्रसतथा तेन, धीरा-अक्षोभाःसंयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्थज्झाणतववायपणोल्लियपहाविएणं' प्रशस्तध्यान-धर्मादि तद्रूपं यत्तपः स एव वातो-वायुस्तेन यत् प्रणोदितं-प्रेरणं तेन प्रधावितो-वेगेन चलितो यः स तथा तेन ।
संयमपोतेनेतिप्रकृतम्, 'उज्जमववसायग्गहियणिअरणजयणउवओगनाणदंसणविसुद्धवयभंडभरिअसारा' उद्यमः-अनालस्यव्यवसायो-वस्तुनिर्णयः सद्वयापारोवाताभ्यां मूलकल्पाभ्यायद्गृहीतं-क्रीतं निर्जरणयतनोपयोगज्ञानदर्शनविशुद्धव्रतरूपंभाण्डक्रयाणकतस्यभरितःसंयमपोतभरणेन पिण्डितः सारो यैस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तत्र निर्जरणं-तपः यतना-बहुदोषत्यागेनाल्पदोषाश्रयणम् उपयोगः-सावधानता ज्ञानदर्शनाभ्यां विशुद्धानि व्रतानि, अथवाज्ञानदर्शने चविशुद्धव्रतानि चेतिसमासः, व्रतानिच महाव्रतानि, पाठान्तरेण 'नाणदसणचरित्तविसुद्धवरमंडभरियसार त्ति तत्र ज्ञानदर्शनचारित्राण्येव विशुद्धवरभाण्डं तेन भरितः सारो यैस्ते तथा, जिनवरवयणोवदिठमग्गेणं अकुडिलेण सिद्धिमहापट्टणाभिमुहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org