________________
११८
औपपातिकउपाङ्गसूत्रम्-२१
समणवरसत्यवाह' त्ति व्यक्तं ।
'सुसुइसुसं भाससुपण्हसास' त्ति सुश्रुतयः - सम्यक श्रुतग्रन्थाः सत्सिद्धान्ता वा सुशुचयो वा सुखः सम्भाषी येषां सुखेन वा सम्भाष्यन्त इति सुसम्भाषाः शोभनाः प्रश्नाः येषां सुखेन वा प्रश्नयन्ते ये ते सुप्रश्नाः शोभना आशाः - वाञ्छा येषां ते स्वाशाः अथवा सुखेन प्रश्नयन्ते शास्यन्ते च - शिक्ष्यन्ते ये ते सुप्रश्नशास्याः शोभनानि वा प्रश्नशस्यानि - पृच्छाधान्यानि येषां ते तथा अथवा सुप्रश्नाः शस्याश्च-प्रशंसनीयाः, ततः कर्मधारय इति, 'दुइज्जन्त' त्ति दवन्तो वसन्तः, अनेकार्थत्वाद्धातूनां, 'णिमय'त्ति भयमोहनीयोदयनिषेधात् 'गयभय'त्ति उदयविफलताकरणात्
'संजय'त्ति संयमवन्तः, कुत इत्याह- 'विरय'त्ति यतो निवृत्ताः हिंसादिभ्यः, तपसि वा विशेषेण रताः विरताः, विरया वा निरौत्सुक्याः विरजसो वा- अपापाः, 'संचयाओ विरय'त्ति क्वचिद्श्यते, तत्र सन्निधेर्निवृत्ता इत्यर्थः, 'मुत्त' त्ति मुक्ताः ग्रन्थेन 'लहुअ' त्ति लघुका स्वल्पोपधित्वात् 'निरवकंख' त्ति अप्राप्तार्थाकाङक्षावियुक्ताः 'साहू' मोक्षसाधनात् 'निहुआ' प्रशान्तवृत्तयः 'चरंति धम्मं 'ति व्यक्तम् । अत्र साधुवर्णके जितेन्द्रियत्वादीनि विशेषणानि बहुशोऽधीतानि तानि च गमान्तरतया निरवद्यानि, यत् पुनरत्रैव गमे पुनरुक्तमवभासते तत् स्तवत्वान्न दुष्टं यदाह
119 11
“सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं । संतगुणकित्तणासु य न हुंति पुनरुत्तदोसा उ ॥
मू. (२२) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतिअं पाउब्भवित्था कालमहानीलसरिसणीलगुलिअगवलअयसिकुसुमप्पगासा विअसिअसयवत्तमिव पत्तलनिम्मलईसिंसितरत्ततंबणयणा गरुलायतउज्जुतुंगणासा उअचिअसिलप्पवालबिंबफलसण्णिभाहरोट्ठा ।
पंडुरससिसकलविमलनिम्मलसं खगो क्खीरफेणदगरयमुणालियाधवलदंतसेढी हुयवहनिद्धंतघोयतत्ततवणिज्जरत्ततलतालुजीहा अजणघणसिणरुयगरमनिजनिद्धकेसा वामेगकुंडलधरा अद्दचंदनानुलित्तगत्ता ।
वृ. असुरवर्णके किमपि लिख्यते- 'कालमहाणीलसरिसणीलगुलि अगवल-अयसिकुसुमपगासा' कालो यो महानीलो - मणिविशेषस्तेन सद्दशा वर्णतो ये ते तथा, नीलो - मणिविशेषः गुलिका--नीलिका गवलं - माहिषं शृङ्गम् अतसीकुसुमं - धान्यविशेषपुष्पं एतेषामिव प्रकाशोदीप्तिर्येषां ते तथा, ततः कर्मधारयः, कालवर्णा इत्यर्थ, 'विअसिअसयवत्तमिवेति व्यक्तं, 'पत्तलणिम्मलईसीसियरत्ततंबणयणा' तलानि-पक्ष्मवन्ति निर्मलानि - विमलानि ईषत् सितरक्तानि क्वचिद्देशे मनाक् श्वेतानि क्वचिच्च मनाग्रक्तानीत्यर्थ क्वचित्र ताम्राणि - अरुणानि नयनानि येषां ते तथा ।
शतपत्रसाधर्म्यं च व्यक्तमेव, 'गरुले' त्यादिविशेषणचतुष्टयं महावीरवर्णकवन्नेयम् 'अंघणघणकसिणरुयगरमणिजाणिद्धकेसा' अञ्जनघनौ - प्रतीतौ कृष्णः - कालः रुचको - मणिविशेषस्तद्वद्रमणीयाः स्निग्धाश्च केश येषां ते तथा, 'वामेगकुंडलधरा' वामे कर्णे एकमेव कुण्डलं धारयन्ति येते तथा दक्षिणे त्वाभरणान्तरधारिणइति सामर्थ्यगम्यम्, आर्द्रचन्दनानुलिप्तगात्रा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International