________________
औपपातिकउपाङ्गसूत्रम्-२१ मचुभयतोयपटुं' अपमानमेव-अपूजनमेव फेनो यत्र स तथा, तीव्रखिंसनं च-अत्यर्थनिन्दा पुलम्पुलप्रभूता-अनवरतोद्भूताःयारोगवेदनाः, पाठान्तरेतीव्रखिंसनं प्रलुम्पनानिच प्रभूतरोगवेदनाश्च परिभवविनिपातश्च-पराभिभवसम्पर्क परुषधर्षमाश्च-निष्ठुरवचननिर्भर्त्सनानि समापतितानि-समापनानिबद्धानियानि कठिनानि-कर्कशोदयानि कर्माणि-ज्ञानावरणादीनि तानि चेति द्वन्द्वः।
___ तत एतान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्ग रङ्गद्-वीचिभिश्चलत् नित्यं-ध्रुवं मृत्युभयमेव-मरणभीतिरेव तोयपृष्ठ-जलोपरितनभागो यत्रस तथा, ततः कर्मधारयः, अथवा अपमानफेनमिति तोयपृष्ठस्य विशेषणम्, अतो बहुव्रीहिरेवातस्तं, 'कसायपायालसंकुलं' कषाया एव पातालाः-पातालकलशास्तैः सङ्कुलो यः स तथा तं।
"भवसयसहस्सकलुसजलसंचयं भवशतसहसम्राण्येव कलुषो जलानां सञ्चयो यत्र स तथा तं, पूर्वं जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवानां जननादिधर्मवतां जलविशेषसमुदायतोक्तेति नपुनरुक्तत्वमिति, पइभयंति व्यक्तं, 'अपरिमिअमहेच्छकलुसमइवाउवेगउझुम्ममणदगरयरयंधआरवरफेणपउरआसापिवासधवलं' अपरिमिता-अपरिमाणा या महेच्छा-बृहदभिलाषालोकास्तेषांकलुषा-मलिना यामति सैव वायुवेगेन उद्धुम्ममाणंउडुब्बमाणं वा-उत्पाद्यमानं यदुदकरजः-उदकरेणुसमूहस्तस्य रयोवेगस्तेनान्धकारो यः स तथा, वरफेनेनेव प्रचुराशापिपासाभिस्तत्र प्रचुरा-बह्वय आशाः-अप्राप्तार्थानां प्राप्तिसम्भावनाः पिपासास्तुतेषामेवाकांक्षा अतस्ताभिर्धवल इव धवलो यः स तथा।
ततः कर्मधारयः, अतस्तं, 'मोहमहावत्तभोगभममाणगुप्पमाणुच्छलतपयोणियतपामियपमायचंडबहुदुठ्ठसावयसमाहउद्धायमाणपब्यारघोरकंदियमहारवरवं तेरवरवं' मोहरूपे महावर्तेभोगरूपंभ्राम्यत्-मण्डलेन भ्रमद्गुप्यत्-व्याकुलीभवदुच्छलत्-उत्पतत् प्रत्यवनिपतच्चअधःपततपानीयं-जलं यत्र सतथा, प्रमादा-मद्यादयस्त एव चण्डबहुदुष्टश्वापदाः-रौद्रभूरिक्षुद्रव्यालास्तैर्येसमाहताः-प्रहता उद्धावन्तश्च-उत्तिष्ठन्तोवा विविधंचेष्टमानासमुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयस्तेषां प्राग्भारः पूरो वा समूहो यत्र स तथा।
तथा घोरो यः क्रन्दितमहारवः स एव रवन्-प्रतिशब्दकरणतः शब्दायमानो भैरवरवो-भीमघोषो यत्र स तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तम् ।
मू. (२१-वर्तते) अन्नाणभमंतमच्छपरिहत्यअणिहुतिंदियमहामगरतुरिअचरिअखोखुब्भमाण-नयंतचवलचंचलचलंतघुम्मंतजलसमूहं अरतिभयविसायसोगमिच्छत्तसेलसंकडं अणाइ-संताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं अमरनतिरियनिरयगइगमणकुडिलपरिवत्तविउलवेलं चउरंतमहंतमणवदग्गं रुदं संसारसागरं भीमदरिसणिजंतरंति।
धीईणिअनिष्पकंपेण तुरियचवलं संवर वेरग्गतुंगकूवयसुसंपउत्तेणं नाणसितविमलमूसिएणं सम्मत्तविसुद्धलद्धनिजामएणं धीरा संजमपोएण सीलकलिआ पसत्यज्झाणतववायपणोल्लिअपहाविएणं उज्जमववसायग्गहियणिजरणजयणउवओगनाणदंसणविसुद्धवयभंडभरिअसारा जिनवरवयणोवदिट्ठमग्गेणं।
अकुडिलेणं सिद्धिमहापट्टणाभिमुहा समणवरसत्थवाहा सुसुइसुसंभाससुपण्हसासा गामे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org