Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
औपपातिकउपाङ्गसूत्रम्-१५
'खुड्डिय' ति क्षुद्रिका - महत्यपेक्षया लध्वी मोकप्रतिमा - प्रश्रवणाभिग्रहः, इयं च द्रव्यतः प्रश्रवणविषया प्रश्रवणस्याप्रतिष्ठापनेत्यर्थ, क्षेत्रतो ग्रामादेर्बहि, कालतः शरदि निदाधे वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्ये, भावतस्तु दिव्यादिकोपसर्गसहनमिति । एवं महामोकप्रतिमाऽपि नवरं भुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, अभुक्त्वा चेत्तदाऽष्टादशभक्तेनेति । 'जवमज्झं चंदपडिमं ति यवस्येव मध्यं यस्यां सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि - शुक्लप्रतिपदि एकं कवलं भिक्षां वा अभ्यवहृत्य प्रतिदिनं कवलादिवृद्धया पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदशैव भुक्त्वा प्रतिदिनमेकहन्या अमावास्यायामेकमेव यस्यां भुङ्के सा स्थूलमध्यत्वत् यवमध्येति ।
'वइरमज्झं चंदपडिमं 'ति वैरस्येव (वज्रस्येव) मध्यं यस्यां सा तथा, यस्यां हि कृष्णप्रतिपदि पञ्चदश कवलान् भुक्त्वा ततः प्रतिदिनमेकहान्या अमावास्यायामेकं शुक्लप्रतिपद्यप्येकमेव, ततः पुनरेकैकवृद्दया पौर्णमास्यां पञ्चदश भुङ्क्ते सा तनुमध्यत्वाद्वज्रमध्येति ।। वाचनान्तराधीतमथ पदचतुष्कम्- 'विवेगपडिमं' ति विवेचनं विवेकः- त्यागः, स चान्तराणां कषायादीनां बाह्यानां च गणशरीरानुचितभक्तपानादीनां तत्प्रतिपत्तिर्विवेकप्रतिमेति । 'विउस्सग्गपडिमं 'ति व्युत्सर्गप्रतिमा- कायोत्सर्गकरणमिति ।
'उवहाणपडिमं 'ति तपोविषयोऽभिग्रहः, यद्यपि दशाश्रुत्कन्धे भिक्षूपसकप्रतिमास्स्वरूपेयमुक्ता तथापीह तथा न व्याख्याता, भिक्षुप्रतिमानां प्रागेव दर्शितत्वाद्, उपासकप्रतिमानां च साधूनामसम्भवात् । 'पडिसंलीणपडिमं' ति संलीनताऽभिग्रहमिति ।
१००
मू. (१६) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विनयसंपन्ना नाणसंपण्णा दंसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओसंसी तेअंसी वच्चंसी जसंसी ।
-जिअकोहा जियमाणा जिअमाया जिअलोभा जिअइंदिआ जिअणिद्दा जिअरीसहा जीवि आसमरणभयविष्यमुक्त वयप्पहाणा गुणप्पहाणा करणप्पहाणा चरणप्पहाणा णिग्गहप्पहाणा निच्छयप्पहाणा अज्जवम्पहाणा मद्दवप्पहाणा लाघवप्पहाणा
-खंतिप्पहाणा मुत्तिप्पहाणा विजापहाणा मंतप्पहाणा वेअप्पहाणा बंभप्पहाणा नयप्पहाणा नियमप्पहाणा सप्पहाणा सोअप्पहाणा चारुवण्णा लज्जातवस्सीजिइंदिआ सोही अनियाणा अप्पुस्सुआ अबहिल्लेसा अप्पडिलेस्सा सुसामण्णरया दंता इणमेव निग्गथं पावयणं पुरओकाउं विहरति ।
वृ. साधुवर्णकगमान्तरमेव, तत्र 'जाइसंपन्न' त्ति उत्तममातृकपक्षयुक्ता इत्यवसेयम्, अन्यथा मातृकपक्षसम्पन्नत्वं पुरुषमात्रस्यापि स्यादिति नैषामुत्कर्ष कश्चिदुक्तः स्याद्, उत्कर्षाभिधानार्थं चैषां विशेषणकदम्बकं चिकीर्षितमिति, एवं 'कुलसंपन्ना' इत्याद्यपि विशेषणनवकं, नवरं कुलंपैतृकः पक्षः बं- संहननसमुत्थः प्राणः रूपम् - आकृति विनयज्ञाने प्रतीते दर्शनं - सम्यक्त्वं चरित्रं - - समित्यादि लज्जा - अपवादभीरुता संयमो वा लाघवं द्रव्यतोऽल्पोपधिता भावतो गरवत्रयत्यागः 'ओअंसि' त्ति ओजो - मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः 'तेयंसि' त्ति तेजः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150