Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 39
________________ ९८ औपपातिकउपाङ्गसूत्रम्-१५ 'खुड्डागसीहनिक्कलिय'ति वक्ष्यमाणमहासिंहनिक्रडितापेक्षया क्षुल्लक सिंहनिक्रडितसिंहगमनं तदिव यत्तपस्तत् सिंहनिक्रडितमित्युच्यते, तद्गमनं चातिक्रन्तदेशावलोकनतः, एवमतिक्रन्ततपःसमासेवनेनापूर्वतपसोऽनुष्ठानंयत्र तत्सिंहनिक्रडितमिति, तच्चैवम्-चतुर्थततः षष्ठचतुर्थेऽष्टमषष्ठे दशमाष्टमे द्वादशदशमे चतुर्दशद्वादशे षोडशचतुर्दशे अष्टादशषोडशे विंशतितमाष्टादशेविंशतितमंचेतिक्रमेण विधीयते, ततःषोडशाष्टादशेचतुर्दशषोडशेद्वादशचतुर्दशे दशमद्वादशेअष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठे चतुर्थं चेति। अत्र च एकस्यां परिपाटयां दिनमानम् नवकसङ्कलने द्वे ४५ । ४५ अष्टकसालना चैका ३६ सप्तकसङ्कलनाऽप्येकैव २८ पारणकदिनानि ३३ सर्वाग्रम् १८७, एवंच मासाः ६ दिनानि च७, चतसृषुपरिपाटीष्वेतदेव चतुर्गुणं स्यात, तत्र वर्षे २ दिनानि २८, तत्र प्रथमपरिपाटयां पारणकंसर्वकामगुणितं, द्वितीयस्यां निर्विकृतिक, तृतीयायामलेपकारि, चतुथ्यार्माचामाल्ममिति एवं महासिंहनिक्रडितमपि, नवरमिह स्थापना एकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते,तत्रद्वयादीनांषोडशान्तानमग्रेप्रत्येकमेकादयः पञ्चदशान्ताःस्थाप्यन्ते,तथायेषोडशादय एकान्ताः स्थापितास्तेषु पञ्चदशादीनां धन्तानामादौ चतुर्दशादयः स्थापनीयाः, चतुर्थादिना चाभिलापेन ते समुत्कीर्तनीयाः।। दिनमानं चैकस्यां परिपाट्यामिदमत्र-द्वेषोडशानांसकलने १३६,१३६ एका पञ्चदशानां १२० चतुर्दशानामप्येकैव १०५ एकषष्टिश्च पारणकानीति, सर्वाग्रं च ५५८, एवं च वर्षमेकं षट्चमासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुर्गुणमेतदेव वर्षाणि ६मासौ २ दिनानि १२ तथा भद्रप्रतिमा यस्यांपूर्वदक्षिणापरोत्तराभिमुखःप्रत्येकं प्रहरचतुष्टयं कायोत्सर्ग करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रंयावदेकैकदिगभिमुखः कायोत्सर्ग करोति, अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्यां दशसु दिक्षु प्रत्येकमहोरात्रं कायोत्सर्ग करोति । अस्यांच दशाहोरात्राणि मानमिति । अथवा द्विविधा सर्वतोभद्रा-क्षुद्रा महतीच, तत्र क्षुद्रायाः स्थापनोपायगाथा चेयमत्र॥१॥ “एगाई पंचंते ठविउंमज्झंतु आइमणुपंति । सेसे कमेण ठविउं जाणेजा सव्वओभई॥ तपोदिनानीह पञ्चसप्तति, पारणकदिनानि तु पञ्चविंशति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम् । एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपदासा भवन्ति, स्थापनोपायगाथा त्वियम् “एगाई सत्तंता ठविउ मज्झंतु आइमणुपंति। सेसे कमेण ठविउंजाण महासबओभई ।।" १-२-३-४-५-६-७ इयं प्रथमा पनि ४-५-६-७-१-२-३ द्वितीया ७-१-२-३-४-५-६ तृतीया ३-४-५-६-७-१-२ चतुर्थी ६-७-१-२-३-४-५ पञ्चमी २--३-४-५-६-७-१षष्ठी ५-६-७-१-२-३-४ सप्तमी। इह च षन्नवत्यधिकं शतं तपोदिनानां स्यादेकोनपञ्चाशच्च पारणकदिनानि, एवं चाष्टी मासाः पञ्च दिनानि, चतसृषु परिपाटीष्वेतदेव चतुर्गुणमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150