Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 38
________________ मूलं-१५ मति-मनःपर्यायज्ञानं येषां ते तथा, तथाहि-घटोऽनेन चिन्तितः सचद्रव्यतः सौवर्णादि क्षेत्रतः पाटलिपुत्रकादि कालतः शारदादिभवतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यत एव, तथाअर्द्धतृतीयाङ्गुलन्यूने मनुजक्षेत्रे व्यवस्थितसंज्ञिनांमनोग्राहिका आद्याः, इतरे तुसम्पूर्णइति। 'विउव्वणिड्डिपत्त'त्ति विकुर्वणा-वैक्रियकरणलब्धि सैव ऋद्धिस्तां प्राप्ताये तथा। 'चारण'त्ति चरणं-गमनं तदतिशयवदस्ति येषां ते चारणाः, ते च द्विधा-जवाचारणा विद्याचारणाश्च, तत्राष्टमाष्टमेन क्षपतो यतेर्या लब्धिरुत्पद्यते यया च कश्चिज्जाव्यापारमाश्रित्यैकेनैवोपपातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तथा युक्ता आद्याः, या पुनः षष्ठं क्षपत उत्पद्यत, यया श्रुतविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्यं द्वीपं मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चेकेनैवोत्पातेनेहागन्तुं समर्थो भवति तया युक्ता द्वितीया इति । 'विजाहर'त्ति प्रज्ञप्तयादिविधविद्याविशेषधारिणः। 'आगासातिवाइणोत्ति आकाशं व्योमातिपतन्ति-अतिक्रामन्ति आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्व हिरण्यवृष्टयादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीलाआकशातिपातिनः, आकाशादिवादिनोवा-अमूर्तानामपि पदार्थानांसाधन समर्थवादिन इति भावः। मू. (१५-वर्तते) अप्पेगइआ कणगावलिं तवोकम्मं पडिवण्णा एवं एकावलिं खुड्डागसीहनिक्कलियंतवोकम्मंपडिवन्ना अप्पेगइयामहालयं सीहनिक्कलियं तवोकम्मंपडिवन्ना भद्दपडिमं महाभद्दपडिमंसव्वतोभद्दपडिमं आयंबिलवद्धमाणं तवोकम्म पडिवन्ना। वृ.'कणगावलिं तवोकम्मंपडिवण्णग'त्तिकनकमयमणिकमयोभूषणविशेषः, कल्पनया तदाकारं यत्तपस्तत्कनकावलीत्युच्यते,ततस्थापनाचैवम्-चतुर्थषष्ठमष्टमंचोत्तराधर्येणावस्थाप्य तेषामधोऽष्टावष्टमानि चत्वारिचत्वारिपङ्कितद्वयेनावस्थापनीयानि, उभयतोवारेखाचतुष्केण नव कोष्ठकान्विधाय मध्यमे शून्यं विधाय शेषेष्वष्टसु तानि स्थापनीयानि, ततस्तस्याधोऽधः चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि । __ ततःकनकावलिमध्यभागकल्पनयाचतुस्त्रिंशदष्टमानि, तानिचोत्तराधर्येण क्षेत्रीणिचत्वारि पञ्चषट्पञ्चचत्वारि त्रीणिद्वेचेत्येवंस्थाप्यानि, अथवाऽष्टाभिषभिश्चरेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शून्यं कृत्वा शेषेषु तानि स्थापीयानीति।। तत उपर्युपरिचतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, ततः पूर्ववदष्टावष्टमानि, ततोऽष्टमंषष्ठं चतुर्थं चेति । चतुर्थादीनि च क्रमेणैकोपवासादिरूपाणीति । अत्र चैकस्यां परिपाट्यां विकृतिभि पारणकं, द्वितीयस्यां निर्विकृतिकेन, तृतीयायामलेपकृता, चतुर्थ्याचाचाम्लेनेति।अत्र चैकैकस्यां परिपाटयामेकः संवत्सरोमासाः पञ्च दिनानिच द्वादश, परिपाटीचतुष्टये तुसंवत्सराः पञ्चमासा नव दिनानि चाष्टादशेति। एवमेकावली' कनकावल्यभिलापेनेत्यर्थ, एकावली चनान्यत्रोपलब्धेति न लिखिता। 87] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150