Book Title: Agam Sutra Satik 12 Auppatik UpangSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 36
________________ मूलं-१४ एवमन्यान्यपि पदानि, नवरं भोगा-ये तेनैव गुरुत्वेन व्यवहतास्तद्वंशजाश्च, राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाच, ज्ञाता-इक्ष्वाकुवंशविशेषभूताः नागा वानागवंशप्रसूताः कोरव्वत्ति-कुरवः-कुरुवंशप्रसूताः, क्षत्रियाश्चातुर्वण्ये द्वितीयवर्णभूताः, मडत्तिचारभटाः,जोहत्ति-भटेभ्योविशिष्टतराः सहसयोधादयः, सेणावइत्ति सैन्यनायकाः,पसत्यारत्तिप्रशस्तारोधर्मशास्त्रपाठकाः,श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इब्मत्ति-इभ्याः हस्तिप्रमाणद्रविणराशिपतयः ‘अन्ने य बहवे एवमाइणोति एवमप्रकाराः “उत्तमजाइकुलरूवविनयविण्णाणवण्णलावण्णविक्षमपहाणसोहग्गकतिजुत्तत्ति उत्तमा ये जात्यादयः प्रधाने च ये सौभाग्यकान्ती तैर्ये युक्तास्ते तथा, तत्र जाति-मातृकः पक्षः कुलं-पैतृकः पक्षः रूपंशरीराकारः विनयविज्ञाने च प्रतीते वर्णो-गौरत्वादिका कायच्छाया लावण्यम्-आकारस्यैव स्पृहणीयता विक्रमः-पौरुषं सौभाग्यम्-आदेयता कान्तिः-दीप्तिः। 'बहुधणधण्णनिचयपरियालफिडिआ' बहवो ये धनानां-गणिमधरिमादीनां धान्यानां च-शाल्यादीनांनिचयाः-सञ्चयाः परिवारश्च-दासीदासादिपरिकरस्तैः स्फुटिता-ईशवरान्तराण्यतिक्रान्ताःअथवा तेभ्यः सर्वसङ्गत्यागेन दूरीभूता येते तथा, पाठान्तरेबहवोधनधान्यनिचयपरिवारा यस्यां स तथाभूता स्थिति गृहवासे येषां ते तथा । 'नरवइगुणाइरेआ' नरपतेः-राज्ञः सकाशाद्गुणैः-विभवसुखादिभि अतिरेकः-अतिशयोयेषां ते तथा।। 'इच्छियभोगा' ईप्सिता-वाच्छिताः भोगाः-शब्दादयो येषां ते तथा । 'सुहसंपललिया' सुखेन सम्प्रललिताःप्रक्रीडीता ये ते तथा । 'किंपागफलोवमं च ति विषवृक्षफलतुल्यं पुनः 'मुणिति ज्ञात्वा विसयसुहंति व्यक्तं, तथा 'जलबुब्बुअसमानं कुशाग्रेजलबिन्दुः कुशाग्रजलबिन्दुस्तद्वन्धञ्चलं जीवियं तिजीवितव्यंच ज्ञात्वा, तथा 'अद्धवमिणं'ति इदं विषयसौख्यधनसञ्चयादिकम् अध्रुवम्-अनित्यरूपं रज इव पटाग्रलग्नं 'संविधुणित्ता णति विधूय-झगिति विहाय, तथा चइत्त'त्तित्यक्त्वा, किंतदित्याह-हिरण्यंच रूप्यं, यावच्छब्दोपादानादिदं श्यम्चिया सुव्वण्णं चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रज्जं र8 पुरं अंतेउरं चिच्चा विपुलधनकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणमाईयंसंतसारसावतेनं विच्छडइत्ता विगोवइत्ता दानं च दाइयाणं परिभायइत्ता मुंडा भवित्ता अगाराओ अनगारिय मिति, व्यक्तं चैतत्। नवरं सुवर्ण घटितं धनं-गवादि बलं-चतुरङ्गं वाहनं-वेगसरादिकं पुनर्धनं-गणिमादिकनकम्-अघटितसुवर्ण रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्तादयः मौक्तिकानिमुक्ताफलानि शङ्काः-प्रतीताः शिलाप्रवालानि-विद्रुमाणि रक्तरत्नानि पद्मरागा आदिशब्दाद्वस्त्रम्बलादिपरिग्रहः, एतेन किमुक्तं भवतीत्याह-'संत'त्ति विद्यमानं सारस्वापतेयं-प्रधानद्रव्यं, किमित्याह-विच्छz-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुसं सद्विगोप्य-प्रकाशीकृत्य दानातिशयादत एव। 'दानं च दाइयाणं'ति दानाहेभ्यः परिभाज्य-दत्वा, गोत्रिकेभ्यो वा-विभागशो दत्वा मुण्डा भूत्वा-द्रव्यतः शिरोलुञ्चनेन भावतः क्रोधाद्यपनयनेन अगाराद्-गेहात् निष्कम्येतिशेषः, अनगारितां साधुतां प्रद्रजिता गताः, विभक्तिपरिणामाद्वा अनगारितया प्रव्रजिताः- श्रम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150